________________
न्यायमञ्जय
[ पञ्चमम्
तदियमधिकारानुबन्धकल्पना न फलकल्पनेति । सोऽयमनुबन्धद्वयावच्छिन्नो नियोगो वाक्यार्थः ।
वाक्यार्थत्वञ्चास्य प्रधानत्वाद् अन्यो हि यज्यादिरर्थोऽवगम्यमानस्तदनुप्रवेशेन प्रतीयते गुणो भवति । नियोगस्तु स्वमहिमाक्षिप्तदृष्टोपकारानेकक्रिया5 कारककलापोपबृंहितस्वरूपः प्रतीयत इति प्राधान्यमवलम्बते । कार्यञ्चेत् प्रधानमुच्यते नियोग एव कार्यम् । फलञ्चेत् प्रधानमुच्यते तदपि न सिद्धम्, अपि तु साध्यम् । साध्यत्वञ्चास्य नियोगाधीनमिति नियोग एव प्रधानम् । पुरुषस्तु नियोज्यमानत्वादप्रधानमिति । एवं नियोग एव प्रधानत्वाद् वाक्यार्थः ।
10
15
20
25
८४
नियोगस्तु चतुविधः
स च प्रतीतिभेदपर्यालोचनया चतुरवस्थ उच्यते । उत्पत्तिविधिरग्निहोत्रं जुहोतीति, अग्निहोत्राख्यकर्मस्वरूपोत्पादव्यतिरेकेणार्थान्तरानवगमात् ।
विनियोगविधिः दध्ना जुहोतीति, पयसा जुहोतीति, उत्पत्तिविधितः प्रतिपन्ने भावेऽर्थे तत्र दध्यादिगुणविनियोगावगमात् ।
तस्माच्छ्रुत्येकदेश एव फलवचनशब्दो व्यवहितश्रुतोऽपीह सम्बध्यते । 'वसन्ताय कपिञ्जलान्' इत्यत्र 'आलभेत' इतिवत् । तदियमधिकारानुबन्धेति । प्रेयं विना विधेः प्रेरकत्वासिद्धेर्बहिःसिद्धेश्चानुष्ठातारमधिकारिणं विना असम्भवात्, अधिकारिणमेव प्रथमं विधिरपेक्षते, न फलम् फलं विनापि नित्याधिकारे यावज्जीवादी विधेराकाङक्षानिवृत्तेर्बहिः सिद्धेर्लाभाच्च ।
तदनुप्रवेशेनेति । किंविषयं नियोगं कुर्यादिति तद्विषयमवच्छेदकं कुर्वन् । तदपि न सिद्धमिति । न हि सिद्धं फलमुद्दिश्य कश्चित् प्रवर्तते यच्चोद्दिश्य प्रवर्तते, तत् प्रधानं साध्यञ्चेत् तर्हि तत्साध्यता नियोगाधीना स्वर्गकामस्य हि नियोगः । स्वर्गस्य हि साध्यता मनापादयन्नननुष्ठेय एव स्यादिति ।
चतुरवस्थ उच्यते । चतसृष्ववस्थास्वेकतया प्रत्यभिज्ञानात् । यथा ग्रामं गच्छेद् अश्वेन गच्छेद्धनकामो गच्छेत् तस्माद् एवं गच्छेदिति न भिन्ना विधयः प्रतीयन्तेऽपि तु एक एव ।