________________
आह्निकम् ]
प्रमाण प्रकरणम्
गम्यते । एकपदोपादानेऽपि धात्वर्थस्तावत् प्रकृत्यंशाभिधेयः, विधिभावने तु द्वे अपि प्रत्ययांशेनाभिधीयते इति । अतश्च स्वच्छैव भावना विधिना स्पृश्यते न विषयानुरक्ता । स्वच्छा न प्रयोगयोग्या भवति । या च फलकरणेतिकर्तव्यतांशपरिपूर्तिप्रस्थिता प्रयोगयोग्या न तां विधिः स्पृष्टवान् । अविधिस्पृष्टेषु च धात्वर्थकारकादिषु किमिति स चेत् पुरुषः प्रवर्त्येतेति, उच्यते । यद्यपि विधिरनधिगतधात्वर्थानुरागतया स्वच्छामेव भावनामेकाभिधानत्वात् प्रथममाक्षिपति तथा हि तादृशि तस्यां सप्रत्ययप्रवर्तमानात्मनिजस्वरूपनिर्वहणमलभमानो न तावत्येव विरमति, किन्तु परिणीतबालकन्यको वर इव तावद् विलम्बमानः प्रसारितहस्त आस्ते यावत् सर्वाङ्गसुन्दरी प्रयोगयोग्या भावना भवति । आह च,
यद्यप्यन्यैरसंस्पृष्टां विधिः स्पृशति भावनाम् । तथाप्यशक्तितो नासौ तन्मात्रे पर्यवस्यति ॥ अनुष्ठेये हि विषये विधिः पुंसां प्रवर्त्तकः । अंशत्रयेण चापूर्णां नानुतिष्ठति भावनाम् ॥ तस्मात् प्रक्रान्तरूपोऽपि विधिस्तावत् प्रतीक्षते । यावद् योग्यत्वमापन्ना भावनान्यानपेक्षिणी ॥ इति ।
सा हि वाक्यान्तरोपात्तमप्यपेक्षते, प्रकरणान्तराधीतमपि वाञ्छति, प्रकृतिवद् भावलभ्यमपि याचते, अर्थसामर्थ्यगम्यमपि स्पृहयति, इत्येकविध एष शब्दप्रमाणमहिमेति । स चायं व्युत्पादनक्रम ईदृशो व्याख्यातृभिरुपदिश्यते । इत्थमस्य वाक्यार्थः पुनर्भावनात्मावगम्यमान एकयैव बुद्ध्यानेकजातिगुणद्रव्यक्रियाद्यङ्गकलापकल्माषिततनुरवगम्यते । तादृश्येकैवेयं वाक्याद् वाक्यार्थबुद्धिः । आह,
भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया । अनेकगुणजात्यादिकारकार्थानुरञ्जिता ॥
स्वच्छैव भावना विधिना स्पृश्यते, कुर्यादिति ।
अर्थसामर्थ्यगम्यमिति । यथा 'स्रुवेणावद्यति' इत्यवदानं स्रुवेण क्रियमाणं द्रव्याणामेव क्रियते न मांसादीनाम्, तेन तेषां खण्डनस्य कर्तुमशक्यत्वात् ।
5
10
15
20
25