SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जा [ पञ्चमम् एकयैव च बुद्ध्यासौ गृह्यते चित्ररूपया। पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया ॥ इति ॥ एक एवायमतिदीर्घः क्रमविकस्वरः सकलाङ्गपरिपूरितभावनातत्त्वविषयः प्रतिभासः । यथा हि स्थाल्यधिश्रयणात् प्रभृति आ निराकाङ्क्षौदननिष्पत्तेरेकैवेयं पाकक्रिया, सलिलावसेकतण्डुलावपनदीविघट्टनास्रावणाद्यनेकक्षणसमुदायस्वभावा, तथा प्रथमपदज्ञानात् प्रभृति आ निराकाङ्क्षवाक्यार्थपरिच्छेदादेकैवेयं शाब्दी प्रमितिः । आह च पदात् प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते। पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥ 10 इति कृतमतिविस्तरेण । सोऽयं वाक्यार्थो भावनानामधेयः कर्तृव्यापारः, स्वर्गयागादिरर्थः । यस्तु व्यापारः प्रैषरूपो लिङादेर्वाच्यः कार्यो वा, तं विधि सङ्गिरन्ते । शाब्दीभावनाया वाक्यार्थत्वम् तदेतदननुमन्यमाना अन्ये प्रचक्षते, योऽसौ शब्दभावनाख्यः शब्दव्यापारः 15 शब्दस्य कार्योऽभिधेयश्च तमभिदधतः कुर्वतो वा शब्दस्य व्यापारान्तरमस्ति न वा । यदि तावन्नास्ति तदेष व्यापारान्तरनिरपेक्षस्वव्यापारमिवार्थमपि वदतु, विश्राम्यतु व्यापारकल्पना। अस्ति चेदेतदभिधाने व्यापारान्तरं तदानवस्थाप्रतीकारः कश्चिदन्वेष्यः । न चासो दूरादपि लभ्यते। भूतपरिस्पन्दव्यतिरिक्त व्यापारनिरासश्च प्रमाणसामान्यलक्षणे विस्तरेण कृत इत्यसौ मार्ग इहाप्य20 नुसरणीयः । यश्चासौ व्यापारः क्रियते चाभिधीयते च, स किं पूर्वमभिधीयते ततः क्रियते, पूर्व वा क्रियते पश्चादभिधीयते, युगपदेव वा अस्य करणाभिधान इति। पदार्वाहितसंस्कारेति । पदार्थाहितानां संस्काराणां यश्चित्रो नानारूपः सङ्घात स्तजन्या। 25 यस्तु व्यापारः प्रेषरूप इति प्रेरणारूपः । 'वा'शब्दः समुच्चये ।।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy