________________
न्यायमञ्ज
[पञ्चमम् पुरुषप्रवृत्तिरेव तंत्र भव्यतां प्रतिपद्यते । करणांशे तु तस्या नियोज्यविषयसमर्पकपदव्यापारो निविशते । यथा हि यज्यादिना स्वर्गादिभव्यः सम्पद्यत इत्यर्थभावानायामसौ तत्करणतामवलम्बत एवमिहापि नियोज्यपुरुषप्रवृत्ति
विषयाद्यवगमात् संपद्यत इति तदभिधायकशब्दव्यापारस्तत्र करणतां प्रतिपद्यते। 5 इतिकर्तव्यतांशे तु अर्थवादपदव्यापारोऽस्या अवतिष्ठते । केवलं विधिपदश्रवणे
हि सति न तथा प्रवर्त्तयितुमुत्सहन्ते श्रोतारः, यथा अर्थवादजनितबहप्रकारकर्मप्राशस्त्यज्ञानपरितोषितहृदयाः सन्त इत्यर्थवादाः प्रवृत्त्यतिशयहेतवः, तेन तद्व्यापार इतिकर्तव्यतांशमस्याः पूरयतीति । एवं नियोज्यव्यापारो भव्यो
विषयादिसमर्पकपदव्यापारः करणम्, अर्थवादव्यापार इतिकर्तव्यतेति, सेयं 10 त्र्यंशा शब्दभावना, सैव च विधिः । विधिभावनयोः सम्बन्धः
न च विधेर्वाक्यार्थानन्वयलक्षणो दोष आशङ्कनीयः, यत एकप्रत्ययोपादानलक्षणया प्रत्यासत्त्या तदन्वितावगमात् । आहुश्च,
विधिभावनयोस्त्वेकप्रत्ययग्राह्यताकृतः ।
धात्वर्थात् प्रथमं तावत् सम्बन्धोऽध्यवसीयते ॥ इति । विधिर्भावनायां पुरुषं नियुक्त । यथाह "स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते'' इति, तयोः कथमन्वयः स्यात् ?
ननु च त्वयैवोक्तं धात्वर्थात् पूर्वतरं तावद् भावनाया विधेश्च सम्बन्धोऽव
20
नियोज्यविषयसमर्पकपदव्यापारो निविशत इति । नियोज्यविषयप्रतिपादकत्वं तद्व्यापारः ।
इतिकर्तव्यतांश इति । यावद् ह्यर्थवादाः स्वार्थप्रतिपादनलक्षणे व्यापारे न प्रवर्तन्ते तावच्छतमात्रेभ्यस्तेभ्यः प्रवृत्त्यभाव इति ।
न च विधेर्वाक्यार्थानन्वय इति । वाक्यार्थेन भावनया साध्यं साधनमितिकर्तव्यता च सम्बध्यते । न चैवंरूपता विधेरस्तीति ।
'स्वव्यापारे हि पुरुषः' इत्यस्योत्तरमर्धम्-'प्रेष्यस्तस्य च किंकर्मभावनांशत्रयात्मिका ।' किंककः स्वव्यापार इति ।