________________
६७.
आह्निकम् ]
प्रमाण प्रकरणम्
प्रतीतिजन्ममात्रे व्यापारः, किन्तु पुरुषप्रवृत्तावपि तथावगमात् । लिङर्थावगमे सति प्रवृत्तिर्दृश्यत इति तत्रापि लिङ्ग्व्यापारः प्रभवति । स चायं लिङादिव्यापारः शब्दभावनानामधेयो विधिरित्युच्यते । स एव च प्रवर्तकः । भावनाविभागः
इह हि ङादियुक्तेषु वाक्येषु द्वे भावने प्रतीयेते, शब्दभावनार्थंभावना 5 चेति ।
1
तत्रार्थंभावना तावद् धात्वर्थातिरिक्तप्रयोजकव्यापारात्मिका दर्शितैव । यो भवन क्रियाकर्तृविषयः प्रयोजकव्यापारो पुरुषस्थो यत्र भवनक्रियायाः कर्ता स्वर्गादिः कर्मतामापद्यते सोऽर्थभावनाशब्देनोच्यते, व्याख्यातश्चासौ ।
यस्तु शब्दगतः प्रयोजकव्यापारो यत्र पुरुषप्रवृत्तिः साध्यतां प्रतिपद्यते सा शब्दभावना । तथा ह्युक्तम् " अभिधाभावनामाहुरन्यामेव लिङादयः " इति ।
लिङन्तशब्दश्रवणे हि यथा यज्याद्यवच्छिन्नं स्वव्यापारं पुरुषोऽधि - गच्छति तथा तदनुष्ठाने प्रेरितोऽहमित्यपि प्रतिपद्यते । तेनानुष्ठेयार्थं प्रतिपादन इव प्रेरणायामपि शब्दस्य सामर्थ्याद् भावनाद्वयप्रतिपादकं लिङादियुक्तं वाक्यमिष्यते ।
ततः पुरुषव्यापारश्चार्थंभावना शब्दव्यापारश्च शब्दभावनावगम्यते । शब्दव्यापारात्मकत्वाच्च शब्दभावनाशब्देनाभिधीयते । अनवगता च सती न कार्याङ्गमिति शब्देन साभिधीयतेऽपि । तदुक्तम् " अभिधत्ते करोति च " इति ।
शब्दभावनाया अपि अंशत्रयापेक्षित्वम्
ननु शब्दभावनापि भावनात्मकत्वादर्थभावनावदंशयमपेक्षत एवेति तदस्या दर्शयितव्यम् । उच्यते । भव्यांशे तावदस्याः पुरुषप्रवृत्तिरुपनिपततीति उक्तमेव, पुरुषप्रेरणात्मको हि विधिः शब्दभावनेति । तत्साध्या
अभिधाभावनेति । यं कुर्वन्नभिधेयप्रतिपत्तिं जनयेत् शब्दः सोऽभिधात्मको व्यापारोऽभिधाभावना | अभिधाभावनामित्यस्योत्तरमर्धम्, 'अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते' इति ।
10
15
20
25