________________
न्यायमञ्जऱ्यां
[पञ्चमम्
विधेः प्रवर्तकत्वम् - यत्तु, प्रवर्तकस्वरूपानिश्चयाद् विधेरनिश्चय इति तत्राप्युच्यते। फलं तावन्न प्रवर्तकम्, सिद्धासिद्धविकल्पानुपपत्तेः । सिद्धस्य फलस्याप्रवर्तकत्वं सिद्धत्वादेव ।
न हि यद् यस्यास्ति, स तदर्थं यतते । नाप्यसिद्धस्य खरविषाणप्रख्यस्य फलस्य ई प्रवर्तकत्वं युक्तम्, अदृष्टत्वात् । .. ..
अथ कामनाविषयीकृतं फलं प्रवर्तकमिष्यते, सेयं कामनैव प्रवत्तिकोक्ता भवति, न फलम् । उपजातप्रवृद्धतररागस्यापि काम्यमानोपायपरिच्छेदमन्तरेण प्रवृत्त्यनुपपत्तेः । न हि स्वर्गकामः सांग्रहिणीमनुतिष्ठति । तद्वरं श्रेयःसाधनं प्रवर्तकम्, लोकेऽपि चैवमेव व्यवहारो दृश्यते । हरीतक्यादीनामारोग्यसाधनतां वैद्याचार्यचोदनातोऽवगत्य तदुपायादावातुरो जनः प्रवर्तते । तृप्तिसाधनतामोदनस्य मन्यमानस्तद्भक्षणाय बुभुक्षितः प्रवर्तत इति श्रेयःसाधनत्वमेव . प्रवर्तकम् ।
___एतदपि न चतुरस्रम्। श्रेयःसाधनत्वं ह्यनवगतमवगतं वा प्रवर्तकं भवेत् ?
नानवगतमव्युत्पन्नस्य प्रवृत्तेरदर्शनात्, यो हि हरीतकीनामारोग्यहेतुतां न कुत15 श्चिदधिगतवान्, नासौ तदर्थ्यपि तामुपयुङ्क्ते । तस्मात् तद्बोधहेतुः प्रवर्तकः ।
स च दृष्टे विषयेऽन्वयव्यतिरेकादेरपि सम्भवति । किं तेन, अदृष्टे तु विषये श्रेयःसाधनाधिगमः शब्दैकनिबन्धन इति तदधिगमोपायः शब्द एव प्रवर्तकः । अत एव शब्दोऽपि न स्वरूपमात्रेण प्रवर्तकः, वाय्वादितुल्यत्वप्रसङ्गात् । यदि पवन इव, पिशाच इव, कुनृप इव शब्दः प्रवर्तको भवेत्, अनवगतशब्दार्थसम्बन्धोऽपि श्रवणपरवशः प्रवर्तेत । न चैवमस्ति, तस्मादर्थप्रतीतिमुपजनयतः शब्दस्य प्रवर्तकत्वम्। न च नाम लिङादिरेव शब्दः प्रवर्तकाभिधानद्वारेण प्रवर्तको भवितुमर्हति । शब्दस्य च ज्ञापकत्वात् चक्षुरादिकारकवैलक्षण्ये सत्यपि प्रतीतिजन्मनि करणत्वमपरिहार्यम् । करणञ्च कारकं कारकञ्च न निर्व्यापारं स्वकार्यनिर्वृत्तिक्षममिति व्यापारस्तस्य अवश्यम्भावी । लिङादेः शब्दस्य न
शब्दस्य च ज्ञापकत्वादिति । चक्षुरादीनि ह्यगृहीतसङ्गतीनि प्रतीति जनयन्ति । अतस्तानि कारकाणि बीजादिवन्न, धूमादिवज्ज्ञापकानि, सङ्गतिग्रहानपेक्षणादिति ।