________________
आह्निकम् ]
प्रमाणप्रकरणम् कथं पुनर्विधिरप्यमुं साध्यसाधनभावं बोधयति ? इत्थं बोधयति । स हि सप्रत्ययप्रवर्तकस्वभावः, न चापुरुषार्थरूपे व्यापारे पुरुषः प्रेर्यमाणोऽपि सत्यप्रत्ययः, प्रवर्तमानेऽपि पुंसि प्रवर्तकत्वाख्यनिजस्वरूपसङ्कोचमाशङ्कमानो विधिः पुरुषार्थस्वभावं स्वर्ग साध्यतया व्यवस्थापयति यागञ्चास्य साधनतया इति, एवं ह्यवबोधयतोऽस्य प्रवर्तकत्वं निर्वहति । .. यत्तु, दर्शिते स्वर्गादौ फले न प्रवर्तते चेत् पुरुषः किं विधिः कुर्यादिति, तदप्ययुक्तम् । न हि वाय्वादिवत् पुरुषस्य प्रवर्तको विधिः । वाय्वादिः खलु. सप्रत्ययमपि तदितरमपि प्रवर्तयति, विधिस्तु सप्रत्ययस्यैव प्रवर्तकः । सप्रत्ययस्य
चैतावत् प्रवर्तनं यत् प्रवर्तितोऽहमिति ज्ञानजननम् । न फलमदर्शयता विधिना . सप्रत्ययस्य ज्ञानं जनयितुं शक्यम्, फले तु दर्शिते सति तदस्य ज्ञानं जनितमेव। 10 अनेन जनिते ज्ञाने प्रमाणवृत्तेन प्रवर्तित एवासौ विधिना पुरुषः । आलस्यादिनानथित्वेन वा बहिः प्रवृत्तिपर्यन्ततया चेत्, न प्रवर्तते, मा प्रतिष्ट, विधिना तु स्वकर्त्तव्यं कृतम्, प्रवर्तितोऽहमिति ज्ञानजननात् । अन्यो हि प्रवर्तनावगमोऽन्यश्च बाह्यो व्यापारः । एवं विधिवशादेव साध्यसाधनभावधीः ।
15 सा हि प्रथमनिर्वृत्तप्रेरणाज्ञानपूर्विका ॥ यजेतेति प्रेरणा प्रतीयमाना साध्यसाधनसम्बन्धमनवबोधयन्ती विधौ न निर्वहतीति तत्कृतस्तदवबोध उच्यते । निषेधे न हन्यादिति निषेध्यमानस्य भावार्थस्यानर्थतामनवबोधयन् विधिन रागतः प्रवर्तमानं पुमांसं निरोद्धमुत्सहते, इति विधेयवन्निषेध्येऽपि तस्यैव व्यापार इत्यवश्याश्रयणीयो विधिः । 20
यश्चैषः पर्यनुयोगः किमर्थं विधिराश्रित इति, स खलु सरलमतिकृत इव लक्ष्यते । न हि वयमद्य कृतं विधिमाश्रयेम जहीमो वा, प्रतिपत्तारो हि वयं वेदस्य न कर्तारः । तत्र च सविधिकानि यजेत स्वर्गकाम इतिप्रभृतीनि वाक्यानि श्रयन्ते । तेषां मीमांस्यमानोऽर्थ ईदगवतिष्ठते, स्वर्गः साध्यो यागः साधनमिति । स चायं विधिसामर्थ्यलक्ष्य इति युक्तं विधेराश्रयणम् ।
यश्चैषः पर्यनुयोग इति । 'वाक्यान्तरे समर्थेऽपि किमर्थं विधिराश्रितः' इति भाट्ट पर्यनुयोगं सूचयति।
न्या० म०९
25