________________
[पञ्चमम्
न्यायमञ्जसति भवत्येवान्तरेणापि विधिम् । प्रवृत्तिरपीच्छानिबन्धना स्वर्गस्य साध्यत्वे यागस्य च साधनत्वेऽवधारिते यः स्वर्गमिच्छेत्, स तत्सिद्धये प्रवर्तत एव । यस्तु नेच्छेत्तस्य विधिरपि किं कुर्यात् ? न ह्यप्रवर्त्तमानस्य पुंसो विधिनिगडे पदं निदधाति रज्ज्वा वा बाहू बध्नाति। निषेधाधिकारेऽपि सुरापानब्राह्मण5 हननादेः प्रत्यवायसाधनत्वावधारणात् तत्परिजिहीर्षया पुरुषो निवर्त्ततेति
प्रवृत्तिनिवृत्त्योर्न कारणं विधिरिति तदर्थमपि विधिपदाश्रयणमसाम्प्रतम् । विधिस्वरूपविचारः कश्चायं विधिर्नामेत्येतदपि न विद्मः, ननु चाहुः,
विधेर्लक्षणमेतावदप्रवृत्तप्रवर्त्तनम् ।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ।। बाढम् । श्रतोऽयं श्लोकः । किन्तु कोऽसावप्रवृत्तप्रवत्र्तक इति न जानीमः. प्रवर्तकस्वरूपे हि संशेरते प्रवादुका इति । किं लिङादिः शब्द एव प्रवर्तकः, तद्व्यापारो वा, तदर्थो विनियोगः फलं वा, स्वर्गादिश्रेयःसाधनत्वं वा,
रागादिर्वा । प्रवर्तकस्वरूपानवधारणाद् विधेरप्यनवधारणमिति । यत् तावदुक्तं 15 कि विध्याश्रयणेनेति ? तत्रोच्यते ।
यदयं साधनत्वेन यजेरभिहितोऽन्वयः ।
स्वर्गस्य च फलत्वेन स एव महिमा विधेः ॥ विधिवचनमन्तरेण हि स्वर्गकामो यजेतेति पुरुषलक्षणार्थः स्वर्गकामशब्दः शुक्लो होतेतिवत् स्यात् । ततश्चैकपदोपादानलक्षणप्रत्यासत्तिसम्बन्ध20 निसर्गघटितपूर्वापरीभूतस्वभावधात्वर्थसाध्यतातिक्रमेण दूरात् स्वर्गस्य साध्य
त्वमन्यत्रोपसर्जनीभूतस्य कथं कल्पयितुं शक्यते ? तस्मादेष विशिष्टः साध्यसाधनसम्बन्धो विधिप्रसादलभ्य एव भवति नान्यथेति विधिराश्रयणीयः ।
अतिप्रसङ्गदोषेणेति । अज्ञातज्ञापने हि विधौ ‘ग्रामं भवान् लप्स्यते' इत्यादेः - सामुद्रविद्याव्याख्यानस्यापि विधित्वप्रसङ्गात् । 25 शुक्लो होतेतिवत् । यत्विजां मध्ये शुक्लगुणेन होता लक्ष्यते एवं स्वर्गकामनया
पुरुषो लक्ष्यत इति ।