________________
आह्निकम् ]
प्रमाणप्रकरणम् प्रत्ययवाच्यत्वमपि न स्यात् । तदलमनेन निर्धारणप्रयत्नेन, सर्वथा धातोर्वा प्रत्ययाद् वा भावनावगम्यत इति सिद्धम् । भावनायाः सापेक्षत्वम्
सा धातोः प्रत्ययाद् वापि भावनावगता सती ।
अपेक्षतेंऽशत्रितयं किं केन कथमित्यदः ॥ भावयेदित्यवगते नूनमपेक्षात्रयं भवति, किं भावयेत् केन भावयेत् कथं भावयेदिति ? तत्र किमित्यपेक्षा स्वर्गकामपदेन पूर्यते, किं भावयेत् स्वर्गमिति ।
ननु स्वर्गकाम इति पुरुषनिर्देशोऽयं न फलनिर्देशः । सत्यम् । स्वर्गपरस्त्वयं निर्देशः । उक्तं हि, निरतिशयप्रीतिवचनः स्वर्गशब्दः, प्रीतिश्च नान्यार्थेत्यप्युक्तम् । साध्यत्वेन च स्वर्गः काम्यत इति स एव हि किमित्यंशे निपतति 10 स्वर्ग भावयेदिति । स्वर्गं कामयते इति च व्युत्पत्तौ विस्पष्टमेव तस्य साध्यत्वम् । बहुव्रीहावपि तस्यैव साध्यत्वं विधिवृत्तपर्यालोचनयावधार्यते । ___एवं स्वर्गं भावयेदित्यवगते केन भावयेदित्यपेक्षायां यागेनेति सम्बध्यते । ननु यागेनेति न श्रूयते किन्तु यजेतेति । तच्चाख्यातपदं प्रकृतिप्रत्ययात्मकसमुदायरूपम्, तत्र लिङ: प्रत्ययार्थस्य भावना वाच्येत्युक्तम् । यज् इति तु 15 धातुमात्रमवशिष्टं तस्य कृदन्तस्य तृतीयान्तस्य यागेनेति योऽर्थः स कथमेकाकिना तेन प्रत्याय्येत? उच्यते। भावना चेत् प्रत्ययार्थ इति सोढमायुष्मता ! यागेनेत्यभिसम्बन्धः सोढव्य एव । यो हि तस्यां यथा सम्बद्धं योग्यस्तमसौ तथा प्रतीक्षते नान्यथेति । करणाकाङ्क्षापरिपूरणे सम्बन्धयोग्यो यजिरिति तथैवैष भावनयाभिसम्बध्यते ।
अप्रातिपदिकत्वाद्धि तृतीया तत्र मा स्म भूत् ।
शब्दसामर्थ्यलभ्या तु नूनं करणता यजेः ॥ कस्य पुनः शब्दस्य सामर्थ्यमेतद् ? भावनावाचिन इति ब्रूमः । तृतीययैव
विधिवृत्तपर्यालोचनयेति । अपुरुषार्थसाधने प्रवर्तयतोऽपि विधिः प्रवर्तकत्वविधिः । पुरुषार्थस्तेन साध्यत्वेनापेक्ष्यमाणः सन्निहित एवापेक्ष्यते ।
20