________________
६२
न्यायमञ्ज
[पञ्चम करणत्वमभिधानीयमिति नेयं राजाज्ञा। ततस्तदवगतेस्तथाभ्युपगम्यते एवमिहापि स्वर्गकामो यजेतेति तथावगतिर्भवन्ती किमिति न मृष्यते ।
आख्यातात् साध्यता या च धात्वर्थस्यावगम्यते ।
द्वितीया श्रूयते तत्र किं वा तदभिधायिनी ॥ नन्वेवं तर्हि धात्वर्थस्य साध्यतावगतः किमित्यंशे यजिना पतितव्यम् । किं भावयेद् यागमिति । केनेत्यपेक्षिते वाक्यान्तरसमाहितं व्रीहिभिरित्यादि सम्बध्यताम्, न पुनर्यजिः साध्यरूपव्यापाराभिधायिप्रत्ययोपसर्जनीभूतकर्मतामतिप्रत्यासन्नामनारुह्य दूरवर्तिनी करणतामधिरोढुमर्हति ।
उच्यते । स्यादेतदेवं यदि हि स्वर्गकाम इति न श्रूयेत, तस्मिस्तु श्रुते 10 नैवं भवितुमर्हति । कुतः,
स्वर्गे साध्यत्वसम्बन्धादलब्ध्वा साध्यतान्वयम् ।
यजिस्तदानुगुण्येन करणांशे च तिष्ठति ॥ स्वर्गस्य हि काम्यमानत्वात् प्रीत्यात्मकत्वेन चानन्यार्थत्वात् साध्यतायां योग्यत्वात् किमित्यंशोपनिपाते सिद्धे तत्रालब्धनिवेशो यजिस्तदपेक्षितां करण15 तामेव योग्यत्वादवलम्बते ।
सामानाधिकरण्यञ्च ज्योतिष्टोमादिभिः पदैः ।
एवं सत्युपपद्येत करणत्वानुवादिभिः । कर्मनामधेयत्वं ज्योतिष्टोमादीनां शब्दानामुक्तम् ।
ननु साध्यत्वपक्षसाक्षितामपि कर्मनामधेयानि भजन्ते अग्निहोत्रं जुहो20 तीति । नैष दोषः । साध्य एव भवन भावार्थः साधनतामवलम्बते। तत्रापि हि
स्वर्गभावनायामग्निहोत्राख्यो होमः करणमेव, अन्यथा स्वर्गकामपदानन्वयप्रसङ्गादित्युक्तम् । नामधेयपदन्तु किञ्चित् कर्मतामनुवदति अग्निहोत्रमित्यादि, किञ्चित्करणतां ज्योतिष्टोमेनेति । तस्माद् यजेः करणत्वेनैवान्वय इति सिद्धम् ।
25
ततस्तदवगतेरिति । ततस्तृतीयान्तात् ।।
प्रत्ययोपसर्जनीभूत इति। "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः” इति प्रत्ययार्थस्य प्राधान्यात् प्रकृत्यर्थस्योपसर्जनत्वम् ।