________________
न्यायमञ्ज
[पञ्चमम् पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते । औदासीन्यदशापायं पुमान् येन प्रपद्यते ॥ स यत्नो यागहोमादिक्रियानिर्वतिकारणम् । तस्य च व्यतिरिक्तत्वं प्रायः सर्वोऽनुमन्यते ॥ स चायमात्मधर्मोऽपि न विभुत्वादिवन्मतः ।
साध्यरूपाभिसम्बन्धाद् धत्ते विषयतां विभोः ।। इत्यपरे।
अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन् ।
यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ।। ___ यथा हि शाबलेयादिष्वनुगतं गोरूपमवभासते व्यावृत्तञ्च शाबलेयादिरूपम्, एवमिहापि यागादिकर्मणामनुगतञ्च व्यापाररूपं प्रतिभासते । परस्परविभक्तञ्च यागादिरूपं यत् तदनुगतं व्यापाररूपं सा भावना। यथा च शाबलेयाद्यननुरक्तं पृथक्त्वेन गोत्वं दर्शयितुमशक्यम्, एवमिहापि शुद्धं यज्याद्यननुरक्तं
व्यापाररूपं दर्शयितुमशक्यम्, तदुपरक्तत्वेन तस्य सर्वदावगमाद् । न चैतावता 15 तस्य नास्तित्वं सुखदुःखाद्यवस्थानुगतस्येवात्मनः । तथा च किं करोतीत्यनव
गतविशेषव्यापारसामान्यप्रश्ने सति ‘पचति पठति' इति तद्विशेषोत्तरवचनमनुगुणं भवतीति । तच्च सामान्यरूपमपि न गोत्वादिवत् क्रियात्ववद् वा सिद्ध- . तयावभासते, येन विधेरविषयः स्यात् ।
अपि च यजेत दद्याज्जुहयादिति सर्वत्र अपरित्यक्तपूर्वापरीभूतस्वभावं तद्व्यापारसामान्यमवगम्यते, विधेश्च विषयतां प्रतिपद्यते । तदिदं सकलधात्वर्थसाधारणं साध्यमानावस्थं व्यापारसामान्यं भावनेत्युच्यते । तस्मिंश्च पक्षे धातुवाच्यत्वमपि भावनाया वक्तुं शक्यते । पाकादिशब्देभ्यो धातौ सत्यपि तदप्रतीतेन धातुवाच्यत्वं भावनाया इति चेद्, भवत्यादौ तर्हि प्रत्यये तदप्रतीतेः
तस्य च व्यतिरिक्तत्वं यागादिक्रियाव्यतिरिक्तत्वम् । अपरित्यक्तपूर्वापरीभूतस्वभावं साध्यरूपम् ।
भवत्यादौ तीति । भवत्यादौ हि प्रत्ययेन यो भवति, प्रयोज्यस्तद्व्यापारोऽभिधीयते, न तु यो भावयति तद्व्यापार इति ।
25