________________
10
४८ . न्यायमञ्जयां
[प्रथमम् ज्ञानमुत्पद्यत इति कथमुत्पन्नमनुत्पन्नान् न विशिष्यते ? यथा च नीलादिविषयज्ञानोत्पत्त्या अस्य ज्ञातृत्वम्, तथा सुखादिविषयज्ञानोत्पत्त्या भोक्तृत्वमिति तत्रापि नातिप्रसङ्गः। तस्माद्विषयविज्ञानकाले तद्विज्ञानग्रहणान्न तत्कर्मत्वकृतं विषय
प्रत्यक्षत्वमवभासते। तदप्रतिभासे च न परोक्षव्यवच्छेदो न च तृतीयप्रकारा5 सत्त्वसूचनमिति, कथं प्रत्यक्षं विषयद्वित्वसिद्धौ प्रमाणम् ।
यच्चानुमानमप्युक्तं दिषयद्वयसिद्धये। तत्प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम् ॥ विरोधबोधसामर्थ्य प्रत्यक्षस्य च दूषितम् । तदग्रहे च तन्मूलमनुमानं न सिध्यति ॥ एवञ्च विषयद्वित्वसाधनानुपपत्तितः ।
तत्कृतस्त्यज्यतामेष प्रमाणद्वित्वदोहदः ॥ अथ वा सत्यपि विषयद्वैविध्ये सामग्रीभेदात् फलभेदाच्च प्रमाणभेदो भवन् कथमपाक्रियते?
अन्य एव हि सामग्रीफले प्रत्यक्षलिङ्गयोः ।
अन्य एव च सामग्रीफले शब्दोपमानयोः॥ इति वक्ष्यामः।
तेन तद्भदादपि प्रमाणभेदसिद्धर्न द्वे एव प्रमाणे । एतेन त्रीणि प्रमाणानीति सांख्यव्याख्यातापि तत्संख्या प्रत्याख्याता, सामग्रीफलभेदेनोपमानस्य चतुर्थप्रमाणस्य प्रतिपादयिष्यमाणत्वादिति। प्रमाणसंप्लवसमर्थनम्
यत्पुनरेकस्मिन् विषयेऽनेकप्रमाणप्रसरं निरस्यता सौगतेन संप्लवपराकरणमकारि तदपि मतिमोहविलसितम्। असति संप्लवेऽनुमानप्रामाण्यप्रतिष्ठापनानुपपत्तेः।
न ह्यविज्ञातसम्बन्धं लिङ्गं गमकमिष्यते। सम्बन्धधीश्च सम्बन्धिद्वयावगतिपूर्विका ॥ सामान्यात्मकसम्बन्धिग्रहणञ्चानुमानतः। तस्मादेव यदीष्येत व्यक्तमन्योन्यसंश्रयम् ॥
20
25