SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाणप्रकरणम् अनुमानान्तराधीना सम्बन्धिग्रहपूर्विका । सम्बन्धाधिगतिर्न स्यान्मन्वन्तरशतैरपि। तेन दूरेऽपि सम्बन्धग्राहकं लिङ्गलिङ्गिनोः । प्रत्यक्षमुपगन्तव्यं तथा सति च संप्लवः ॥ तत्रतत्स्यादविदितसौगतकृतान्तानामेतच्चोद्यम् । ते हि विकल्पविषये वृत्तिमाहुः शब्दानुमानयोः । तेभ्यः सम्बन्धसिद्धौ च नानवस्था न संप्लवः ॥ तथा हि दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायाऽनुरज्यमानवपुषो विकल्पाः प्रत्यक्षायन्ते। तदुल्लिखितकाल्पनिकतदितरपरावृत्तिस्वभावसामान्याकारप्रविष्टोऽयमनुमानव्यवहारः । पारम्पर्येण मणिप्रभामणिबुद्धिवत् तन्मूल इति 10 तत्प्राप्तयेऽवकल्पते । न पुनः प्रत्यक्षकसमधिगम्यं वस्तु स्पृशति इति कुतः संप्लवः ? कुतो वाऽनवस्था ? प्रमाणसंप्लवसमर्थनम् __तदेतद्वञ्चनामात्रम, यो हि तादात्म्यतदुत्पत्तिस्वभावः प्रतिबन्ध इष्यते स किं वस्तुधर्मो, विकल्पारोपिताकारधर्मों वा। तत्र नायमारोपितधर्मो भवितु- 15 मर्हति । वस्तु वस्तुना जन्यते वस्तु. व वस्तुस्वभावं भवेत् । तस्माद्वस्तुधर्मः प्रतिबन्धः । विकल्पैश्च वस्तु न स्पृश्यते। तत्प्रतिबन्धश्च निश्चीयते इति चित्रम् । इदञ्च स्वभाषितं वस्तुनोः प्रतिबन्धस्तादात्म्यादि गम्यगमकत्वञ्च विकल्पा दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायेति । यथाअर्थजत्वाद् दर्शनं देशकालाद्यवच्छिन्नस्य इदन्तयार्थस्य ग्राहकं तथा दर्शनानन्तरमुत्पद्यमानो विकल्पोऽपि तच्छा- 20 याधारित्वादर्थप्रतिभासी भवन् प्रत्यक्षायते, यथा लाक्षानुरक्तस्फटिकशवलसमनन्तरवृत्तिस्फटिकशकलान्तरमपि लाक्षानुरक्तमिव प्रतिभासते तथा अर्थनिर्भासार्थजदर्शनाव्यवहितोत्पत्तिर्विकल्पोऽयर्थनिर्भास इवेत्यर्थः । सामान्याकारप्रविष्ट इति । विकल्पारोपितयोरेव ह्याकारयोः प्रतिबन्धग्रहस्तादृशस्यैव चानुमेयतेति । अन्यत्र प्रतिबन्धो वस्तुनोः । अन्यत्र तद्ग्रहणोपायोऽन्वयत्यतिरेकलक्षणः 25 विकल्पारोपितधूमसामान्यस्य तदारोपितेनैव वह्नयाकारेण, तयोर्ग्रहीतुं शक्यत्वात्;
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy