________________
न्यायमञ्जयां
[प्रथमम्
रोपितयोरपोहयोस्तदेवमन्यत्र प्रतिबन्धोऽन्यत्र तद्ग्रहणोपायोऽन्यत्र प्रतीतिरन्यत्र 'प्रवृत्तिप्राप्ती इति सर्व कैतवम् । न च दृश्यसंस्पर्शशून्यात्मनां विकल्पानां दर्शनच्छाया काचन सम्भवति, इदन्ताग्राहित्वस्पष्टत्वाद्यपि वस्तुस्पर्शरहितमकिश्चित्करम्, अप्रमाणत्वानपायात् ।
अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च तत्त्वतः । न परिच्छिन्न एवेति ततो मिथ्याऽनुमेयधीः ॥ अथाभिमतमेवेदं बुद्धयारूढत्ववर्णनात् ।।
हन्त तात्त्विकसम्बन्धसाधनव्यसनेन किम् ॥
यथा च सामान्यविषये प्रत्यक्षाभ्युपगममन्तरेण संबन्धग्रहणमघटमानमिति 10 विसंष्ठुलमनुमानम्, एवमवगतसम्बन्धस्य द्वितीयलिङ्गदर्शनमपि दुरुपपादमिति ततोऽपि संप्लवापलापिनामनुमानमुत्सीदेत् ।
न ह्यसाधारणांशस्य लिङ्गत्वमुपपद्यते । विना न चानुमानेन सामान्यमवगम्यते ॥ सैवानवस्था तत्रापि तदेवान्योन्यसंश्रयम्। स एव च विकल्पानां सामर्थ्यशमनक्रमः ॥ अतः सम्बन्धविज्ञानलिङ्गग्रहणपूर्वकम् ।
अनुमानमनिह्नत्य कथं संप्लवनिह्नवः ॥ अपि च विषयद्वैविध्यसिद्धावपि प्रत्यक्षानुमान एव परस्परमपि संप्लवेयाताम् । यतः 20 ।
प्रत्यक्षत्वं परोक्षोऽपि प्रत्यक्षोऽपि परोक्षताम् । देशकालादिभेदेन विषयः प्रतिपद्यते ॥
न धूमस्वलक्षणस्याग्निस्वलक्षणेन, तयोरन्यत्रावृत्तेः । अन्यत्र प्रवृत्तिप्राप्ती, बाह्ये बाह्योन्मुखतया प्रवृत्तेस्तस्यैव च प्राप्तेः। कतवं द्यूतकारवृत्तम्, असमीक्ष्याभिधानात् ।
बुद्धयारूढत्ववर्णनादिति । “सर्व एवायमनुमानानुमेयव्यवहारो बुद्धयारूढेन र धर्ममिन्यायेन सिद्धयति" इति वर्णनात् । बुद्धिरत्र विकल्पज्ञानमभिप्रेता।
द्वितीयलिङ्गदर्शनम् । सम्बन्धग्रहणकालापेक्षया पर्वतादौ ।