________________
प्रमाणप्रकरणम्
आह्निकम् ]
क्षणभङ्ग निषेत्स्यामः सन्तानो यश्च कल्पितः।
दर्शितप्राप्तिसिद्धयादौ संप्लवेऽपि स तादृशः॥ यदपि जात्यादिविषयनिषेधनमनोरथैः संप्लवपराकरणमध्यवसितं तत्र । जात्यादिसमर्थनमेवोत्तरीकरिष्यते।
तावकैर्दूषणगणैः कालुष्यमपनीयते।
तद्वानवयवी जातिरिति वार्तं कभद्रिका ॥ यदपि विरोधवैफल्याभ्यां न संप्लव इत्युक्तम्, तत्र वैफल्यमनधिगतार्थगन्तृत्वविशेषणादिवारणेनैव प्रतिसमाहितम्। विरोधोऽपि नास्ति पूर्वज्ञानोपमर्दैन नेदं रजतमितिवदुत्तरविज्ञानानुत्पादात् । अनेकधर्मविसरविशेषितवषि धर्मिणि कदाचित् केनचित् कश्चिन्निश्चीयते धर्मविशेष इति को विरोधार्थः ?
यदपि प्रत्यक्षस्य शब्दलिङ्गयोश्च समानविषयत्वे सति सदृशप्रतीतिजनकत्वमाशङ्कितम्, तत्र केचिदाचक्षते विषयसाम्येऽप्युपायभेदात् प्रतीतिभेदो भवत्येव, दूराविदूरदेशव्यवस्थितपदार्थप्रतीतिवत् । ___अन्ये तु मन्यन्ते नोपायभेदात् प्रतीतिभेदो भवति अपि तु विषयभेदादेव सन्निकृष्टविप्रकृष्टग्रहणेऽपि विषयौ भिद्यते। दूरात् सामान्यधर्ममात्रविशिष्टस्य 15 धर्मिणो ग्रहणमदूरात्तु सकलविशेषसाक्षात्करणम् । यदिमाः प्रत्यक्षानुमानशब्दप्रमितयः प्रमेयभेदाद्भिद्यन्ते।
विशेषधर्मसंबद्धं वस्तु स्पृशति नेत्रधीः। व्याप्तिबोधानुसारेण तद्वन्मात्रन्तु लैङ्गिको॥ शब्दात्तु तदवच्छिन्ना वाच्ये सजायते मतिः। शब्दानुवेधशून्या हि न शब्दार्थे मतिर्भवेत् ॥
ननु क्षणिकत्वेन विनष्टत्वात् कथं स एव प्रत्यक्षः परोक्षो भवेदिति । तन्नेत्याह क्षणभङ्गं निषेत्स्याम इति । यथा दर्शनविषयीकृतस्य स्वलक्षणस्य प्राप्यस्य चान्यत्वेऽपि सन्तानापेक्षयैकत्वमभ्युपगम्य प्रदर्शितप्रापकत्वं प्रत्यक्षस्य भण्यते, तद्वत् क्षणिकत्वेऽप्ये- 25 कसन्तानापेक्षयैकविषयत्वं प्रत्यक्षानुमानयोः किमिति नेष्यत इति भावः।
शब्दात्तु तदवच्छिन्ना वाच्ये सजायते मतिरिति वक्ष्यमाणप्रवरमतेनाह।