________________
न्यायमञ्जयां
[प्रथमम् कथं तहि तेषां संप्लवः, सर्वत्र विषयभेदस्य दशितत्वात् ? सत्यम्, धर्म्यभिप्रायेण संप्लवः कथ्यते । इमौ तु पक्षौ विचारयिष्यते । सर्वथा तावदस्ति प्रमाणानां संप्लव इति सिद्धम् ।
तदुदाहरणन्तु भाष्यकारः प्रदर्शितवान् 'अग्निराप्तोपदेशात् प्रतीयतेऽमुत्रेति 5 प्रत्यासीदता धूमदर्शनेनानुमीयते प्रत्यासन्नतरेण उपलभ्यते' इत्यादि। क्वचित्तु
व्यवस्था दृश्यते यथा 'अग्रिहोत्रं जुहुयात स्वर्गकामः' इत्यस्मदादेरागमादेव ज्ञानं न प्रत्यक्षानुमानाभ्याम् । स्तनयित्नुशब्दश्रवणात्तद्धेतुपरिज्ञानभनुमानादेव, न प्रत्यक्षागमाभ्याम् । स्वहस्तौ द्वौ इति तु प्रत्यक्षादेव प्रतीतिर्न शब्दानुमानाभ्या
मिति। तस्मात्स्थितमेतत् प्रायेण प्रमाणानि प्रमेयमभिसंप्लवन्ते, क्वचित्तु प्रमेये 10 व्यवतिष्ठन्तेऽपीति।
इत्युद्धृताखिलपरोदितदोषजातसम्पातभीतिरिह संप्लव एष सिद्धः । सर्वाश्च सौगतमनःसु चिरप्ररूढ़ा
भग्नाः प्रमाणविषयद्वयसिद्धिवाञ्छाः ॥ एवं तावन्न्यूनत्वं सङ्ख्यायाः परीक्षितम्, आधिक्यामदानी परीक्ष्यते। प्रमाणानामाधिक्यपरीक्षणम्
तत्रार्थापत्त्या सह प्रत्यक्षादीनि पञ्च प्रमाणानीति प्रभाकरः। अभावेन सह षडिति भाट्टः। सम्भवैतिह्याभ्यामष्टाविति केचित् । अशक्य एव प्रमाणसङ्खयानियम इति सुशिक्षितचार्वाकाः। अर्थापत्तेः प्रमाणान्तरत्वम्
तत्र भाट्टास्तावदित्थमर्थापत्तिमाचक्षते । दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थान्तरकल्पनार्थापत्तिः। दृष्ट इति प्रत्यक्षादिभिः पञ्चभिः प्रमाणरुपलब्धः । श्रुत इति कुतश्चन लौकिकाद् वैदिकाद्वा शब्दादवगतोऽर्थः, ततोऽन्यथानुपपद्यमानादर्थान्तरकल्पनार्थापत्तिरित्येवं षट्प्रमाणप्रभवत्वेन षड्विधाऽसौ भवतीति ।
स्तनयित्नुशब्दश्रवणात् तद्धेतोर्वाय्वभ्रसंयोगविभागादेः परिज्ञानम् । सुशिक्षितचार्वाका उद्भटादयः ।