________________
आह्निकम् ]
प्रमाणप्रकरणम् दृष्टवचनेनोपलब्धिवाचिना गतार्थत्वेऽपि श्रुतार्थापत्तेः पृथगभिधानम्, प्रमाणैकदेशविषयत्वेन प्रमेयविषयार्थापत्तिपञ्चकविलक्षणत्वात् । ___तत्र प्रत्यक्षपूर्विका तावदर्थापत्तिः, प्रत्यक्षावगतदहनसंसर्गोद्गतदाहाख्यकार्याऽन्यथाऽनुपपत्त्या वह्नर्दाहशक्तिकल्पना । अनुमानपूर्विका देशान्तरप्राप्तिलिङ्गानुमितमरीचिमालिगत्यन्यथाऽनुपपत्त्या तस्य गमनशक्तिकल्पना। उपमानपूर्विका 5 उपमानज्ञानावगतगवयसारूप्यविशिष्टगोपिण्डादिप्रमेयाऽन्यथाऽनुपपत्त्या तस्य तज्ज्ञानग्राह्यत्वशक्तिकल्पनेति । तदिमास्तावदतीन्द्रियशक्तिविषयत्वादापत्तयः प्रमाणान्तरम्, शक्तः प्रत्यक्षपरिच्छेद्यत्वानुपपत्तेः, तधीनप्रतिवन्धाधिगमवैधुर्येणानुमानविषयत्वायोगात्।
अन्वयव्यतिरेको हि द्रव्यरूपानुवतिनौ ।
शक्तिस्तु तद्गता सूक्ष्मा न ताभ्यामवगम्यते ॥ शब्दोपमानयोस्त्वत्र सम्भावनैव नास्तीत्यर्थापत्तेरेवैष विषयः । अर्थापत्तिपूर्विका यथा शब्दकरणिकार्थप्रतीत्यन्यथानुपपत्त्या शब्दस्य वाचकशक्तिमवगत्य तदन्यथाऽनुपपत्त्या तस्य नित्यत्वकल्पना। सा चेयं शब्दपरीक्षायां वक्ष्यते । अभावपूर्विका तु भाष्यकारेणोदाहृता जीवतश्चैत्रस्य गृहाभावमवसाय तदन्यथानुपपत्त्या 15 बहिर्भावकल्पनेति।
ननु दृष्टेन सिद्धसिद्धरनुमानमेवेदं स्यात् । नानुमानं सामग्रयभावात् । पक्षधर्मतादिसामग्रया यज्ज्ञानमुपजन्यते तदनुमानमिति तार्किकस्थितिः। सा चेह नास्ति बहिर्भावविशिष्टे चैत्रे चैत्राभावविशिष्टे बहिर्भावेऽनुमेये कस्य लिङ्गत्वमिति चिन्त्यम्। गृहाभावविशिष्टस्य वा चैत्रस्य, चैत्राभावविशिष्टस्य वा 20 गृहस्य, गृहचैत्राभावस्य वा, चैत्रादर्शनस्य वा। न चैषामन्यतमस्यापि पक्षधर्मत्व मस्ति । न हि गृहं वा, चैत्रो वा, तदभावो वा, तददर्शनं वा चैत्रस्य धर्मः, तबहिर्भावस्य वेत्यपक्षधर्मत्वादन्यतमस्यापि न लिङ्गत्वम् ।
तस्य तज्ज्ञानग्राह्यत्वेति। तस्य गोपिण्डस्य तज्ज्ञानग्राह्यत्वमुपमानज्ञानग्राह्यत्वम् ।
तदन्यथानुपपत्त्येति । वाचकशक्तिरेव नित्यत्वं विना नोपपद्यते, सम्बन्धज्ञानकालगृहीतस्य व्यवहारकालेऽसत्त्वात् ।