________________
न्यायमञ्ज
[प्रथमम् अपि च प्रमेयानुप्रवेशप्रसङ्गादपि नेदमनुमानम् । तथा ह्यागमावगतजीवनस्य गृहाभावेन चैत्रस्य बहिर्भावः परिकल्प्यते। इतरथा मृतेनान कान्तिको हेतुः स्यात् । अभावश्च गृहीतः सन् बहिर्भावमवगमयति नागृहीतो धूमवत् । अभावग्रहणञ्च सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकम्, इह तु सदुपर्लम्भकमस्त्येव जीवनग्राहि प्रमाणम् । जीवनं हि क्वचिदस्तित्वमुच्यते । अप्रत्यस्तमिते तु सदुपलम्भके प्रमाणे कथमभावः प्रवर्तत इति, प्रवर्तमान एवासौ सदुपलम्भकं प्रमाणं पृथग्विषयमुपस्थापयति, बहिरस्य भावो गृहे त्वभाव इति । तेन जीवतो बहिर्भावव्यवस्थापनपूर्वकगृहाभावग्रहणोपपत्तेः प्रमेयानुप्रवेशः। अनुमाने तु
धूमादिलिङ्गग्रहणसमये न मनागपि तल्लिङ्गतदनुमेयदहनलिङ्गयनुप्रवेशस्पर्शो 10 विद्यत इति।
___ नन्वपित्तावपि किं प्रमेयानुप्रवेशो न दोषः ? न दोष इति ब्रूमः । प्रमाणद्वयसमपितैकवस्तुविषयाभावभावसमर्थनार्थमर्थापत्तिः प्रवर्त्तमाना प्रमेयद्वयं परामृशत्येव, अन्यथा तत्संघटनायोगात् । अतश्च येयमागमादनियतदेशतया
____प्रमेयानुप्रवेशप्रसङ्गादिति । जीवतो यो गृहाभावः स लब्धात्मभावः पक्षधर्म15 त्वासादनद्वारेण हेतुतां प्रतिपद्यते, तस्य तु गृहाभावस्य जीवनविशिष्टस्य बहिर्भावं
विनात्मलाभ एव नास्ति, तदाक्षेपेणैवात्मलाभात्, इत्यनुमानप्रमेयस्य लिङ्गग्रहणसमय एव-तद्ग्रहणं विना लिङ्गग्रहणाभावाद् गृहीतत्वेन प्रमेयानुप्रवेशिता । इमामेवोत्तरग्रन्थेनाभिव्यनक्ति।
प्रमाणद्वयसमर्पितेति । प्रमाणद्वयेनागमाभावाख्येनैकदेवदत्तविषयौ यौ भावा20 भावौ विरुद्धौ समर्पितौ तयोः समर्थनार्थमविरोधेनावस्थानार्थम् । प्रमेयद्वयं परामृश
त्येवेति । प्रमेयद्वयमागमाभावसम्बन्धि भावाभावात्मकं परामृशत्युपपादकत्वेन, योऽभावः स गृहे, यस्तु भावः स बहिरिति। अन्यथा तत्संघटनायोगादिति । एकवस्तुविषययोर्भावाभावयोः संमीलनाया अभावादित्यर्थः । एवमर्थापत्तेापारं
प्रदर्श्य फलतस्तु तस्य नियमांश एव पर्यवसानमिति दर्शयितुमाह-अतश्च येयमाग25 मादिति । पूर्व ह्यनियतदेशतया प्रतिपत्तिरभूत्, गृहाभावे तु कुतश्चित्प्रमाणादवगते
संविन्नेति नियतदेशतयोत्पादात् । एवं च सति यद्यपि जीवतो गृहाभावेनात्मलाभसमय एवाक्षिप्तो बहिर्भावस्तथापि नियमस्य पूर्वमनवगतस्यावगमादस्ति पृथक् प्रमेयलाभः,