________________
आह्निकम् ]
प्रमाण प्रकरणम्
क्वचिदस्तीति संवृत्तिरभूत्सैवेयं गृहाभावे गृहीते बहिरस्तीति संविदधुना संवृत्ता । तदतो वैलक्षण्यान्नानुमानमर्थापत्तिः । अतश्चैवं सम्बन्धग्रहणाभावात् । भावाभावो हि नैकेन युगपद्वह्निधूमवत् । प्रतिबन्धतया रोद्धुं शक्यौ गृहबहिः स्थितौ ॥ अन्यथानुपपत्त्या च प्रथमं प्रतिबन्धधीः । पश्चाद्यद्यनुमानत्वमुच्यते काममुच्यताम् ॥
नन्वस्त्येव गृहद्वारे वर्तिनः सङ्गतिग्रहः । भावेन भावसिद्धौ तु कथमेष भविष्यति ॥
गत्वा गत्वापि तान्देशान्नास्य जानामि नास्तिताम् । कौशाम्ब्यास्त्वयि निष्क्रान्ते तत्प्रवेशादिशङ्कया ॥ तस्मादभूमिरियम्, असर्वज्ञानामित्यर्थापत्त्यैव तनिश्चयः ।
५५
यत्र गृहे चैत्रस्य भावमवगम्य तदन्यथानुपपत्त्या तदन्यदेशेषु नास्तित्वमवगम्यते तत्र देशानामानन्त्याद् दुरधिगमः प्रतिबन्धः । अनग्निव्यतिरेकनिश्चये 10 धूमस्य का वार्तेति चेद् उच्यते । तत्र धूमज्वलनयोरन्वयग्रहणसम्भवान्न व्यतिरेकग्रहणमाद्रियेरन् भूयोदर्शन सुलभनियमज्ञानसम्पाद्यमानसाध्याधिगमननिर्वृतमनसां किमनग्निव्यतिरेकनिश्चयेन ? इह पुनरन्वयावसायसमय एव गम्यधर्मस्य दुरवगमत्वमुक्तम्, अनन्तदेशवृत्तित्वात् । अनुपलब्ध्या तन्निश्चय इति चेद् । न । मन्दिरव्यतिरिक्त सकलभुवनतलगततदभावनिश्चयस्य नियतदेशयानुपलब्ध्या कर्तु- 15 मशक्यत्वात् । तेषु तेषु देशान्तरेषु परिभ्रमन्ननुपलब्ध्या तद्भावं निश्चेष्यामीति चेन् मैवम्
नन्वित्त्थममुमर्थमनुमानान्निश्चेष्यामः, देशान्तराणि चैत्रशून्यानि चैत्रा - धिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति । न । प्रत्यनुमानोहत्वात् । देशान्तराणि चैत्राव्यतिरिक्तानि तत्समीपदेशव्यतिरिक्तत्वाच्चत्राधिष्ठित देशवदिति । तस्मान्नि
1
5
20
आक्षिप्तबहिर्भावस्य लब्धात्मलाभस्य गृहतो बहिरस्तीति नियमावगतिपर्यन्तत्वात् । तदतो वैलक्षण्यादिति । न ह्यनुमाने गमकं गम्याक्षेपपूर्वकमात्मानमासाद्य नियमांशे 25 व्याप्रियत इत्यर्थः । तदुक्तम् 'धूमावगमवेलायां नाग्न्यधीनं हि किञ्चन' इति ।