________________
५६
5
10
15
[ प्रथमम्
यतदेशोपलभ्यमानपरिमितपरिमाणपुरुषशरीरान्यथानुपपत्त्यैव तदितरसकलदेशना - स्तित्वावधारणं तस्येति सिद्धम् ।
पीनो दिवा च नातीति साकाङ्क्षवचनश्रुतेः । तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥
इहैवंविधसाकाङ्क्षवचनश्रवणे सति समुपजायमानं रजनीभोजनविज्ञानं प्रमाणान्तरकरणकं भवितुमर्हति प्रत्यक्षादेरसन्निधानात् । न प्रत्यक्षं क्षपाभक्षणप्रतीतिक्षमं परोक्षत्वात्। नानुमानमनवगतसम्बन्धस्यापि तत्प्रतीतेः । उपमानादेस्तु शङ्कव नास्ति । तस्माच्छाब्द एव रात्रिभोजनप्रत्ययः । शब्दश्च न श्रूयमाण • इममर्थमभिवदितुमलम्, एकस्य वाक्यस्य विधिनिषेधरूपार्थद्वयसमर्थनशून्यत्वात् । अत्र च रात्र्यादिपदानामश्रवणादपदार्थस्य च वाक्यार्थत्वानुपपत्तेः । न च विभावरीभोजनलक्षणोऽर्थो दिवावाक्यपदार्थानां भेदः संसर्गे वा येनायमपदार्थोऽपि प्रतीयते ।
20
न्यायमञ्जय
तस्मात्कल्प्यागमकृतं नक्तमत्तीति वेदनम् । तद्वाक्यकल्पनायान्तु प्रमाणं परिचिन्त्यताम् ॥ नाध्यक्षमनभिव्यक्तशब्दग्रहणशक्तिमत् । न लिङ्ग-मगृहीत्वापि व्याप्ति तदवधारणात् ॥ क्वचिन्नित्यपरोक्षत्वाद्व्याप्तिबोधोऽपि दुर्घटः । विनियोक्त्री श्रुतिर्यत्र कल्प्या प्रकरणादिभिः ॥
न च विभावरीभोजनलक्षणोऽर्थ इति । एकस्मिन् क्रियापदे प्रयुक्ते सर्वकारकाक्षेपसिद्धिः, कारकपदे बा प्रयुक्त एकस्मिन् सर्वक्रियाक्षेपात् कारकपदं क्रियापदश्च कारकान्तरक्रियान्तरव्यावृत्तय उपादीयते । यथा 'गामानय' इति गामित्यनेनैव क्रियामात्राक्षेपाद् आनयेति बधानेत्यादिव्यावृत्त्यर्थं कल्प्यते । तस्माद् भेदो वाक्यार्थं इति भेदवाक्यार्थवादिमतम् । न च परस्परासंसृष्टावन्यतो भेत्तुं शक्यौ । अतः संसर्गप्रतीतिस्तत्रास्ति | साकाङ्क्षाणां वा परस्परसम्बन्धात् संसर्गो वाक्यार्थः ; अर्थान्तरादभिन्नयोश्च सं नोपपद्यत इत्ति भेदप्रतीतिस्तत्रास्ति ।
75
विनियोक्त्री श्रुतिर्यत्र कल्प्या प्रकरणादिभिस्तत्र व्याप्तिबोधोऽपि दुर्घट इति सम्बन्धः । प्रकरणादिभिरिति लिङ्गादिप्रमाणपञ्चकपरिग्रहः । कश्चित्तु 'व्रीहीनवहन्ति'