________________
आह्निकम् ]
प्रमाण प्रकरणम्
farairat ft श्रुतिः सर्वत्र प्रकरणादौ वाक्यविद्भिरभ्युपगम्यते । यथोक्तं 'विनियोक्त्री श्रुतिस्तावत्सर्वेष्वेतेषु सम्मतेति' । तस्याश्च नित्यपरोक्षत्वाद् दुरधि - गमस्तत्र लिङ्गस्य प्रतिबन्धः । न च निशापदवचनस्य सत्तानुमातुमपि शक्या । तस्यां साध्यायां भावाभावोभयधर्मकस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वेनाहेतुत्वात् । न चात्र धर्मः कश्चिदुपलभ्यते यस्तेन तद्वान् पर्वत इवाग्निमाननुमीयते । न च दिवावाक्यं तदर्थोऽपि निशावचनानुमाने लिङ्गतां प्रतिपत्तुमर्हति ।
5
५७
अश्रुते हि निशावाक्ये कथं तद्धर्मताग्रहः । श्रुते तस्मिंस्तु तद्धर्मग्रहणे किं प्रयोजनम् ॥
fararaavarर्थानां तिष्ठतु लिङ्गत्वम्, अनुपपद्यमानतयापि न निशावाक्यप्रत्यायकत्वमवकल्पते । पदार्थानां हि सामान्यात्मकत्वाद्विशेषमन्तरेणानुपपत्तिः 10 स्यान् न वाक्यान्तरमन्तरेण । तस्माच्छू यमाणं वाक्यमेव तदेकदेशमन्तरेण निराकाङ्क्षप्रत्ययोत्पादकस्वव्यापार निर्वहणं सन्धिमनधिगच्छत्तदेकदेशमाक्षि
पतीति । सेयं प्रमाणकदेशविषया श्रुतार्थापत्तिः ।
इति द्वितीयाश्रुतितोऽपि 'व्रीह्मथऽवघातः' इति श्रुत्यन्तरकल्पनमिच्छति । लिङ्गेन श्रुतिकल्पनं यथा 'बर्हिर्देवसदनं दामि' इति मन्त्रस्याभिधानसामर्थ्यलक्षणेन लिङ्गन 15 बहिर्लवनमनेन मन्त्रेण कर्तव्यमिति श्रुतेः परिकल्पनम् । तथाहि देवाः सीदन्त्यस्मिन्निति देवसदनं बहिर्दामि लुनामीत्यभिधानसामर्थ्यम् । वाक्याद् यथा 'अरुणयैकहायन्या सोमं क्रीणाति' इति श्रुत्या क्रयार्थयोररुणैकहायन्योर्वाक्यादेकक्रियासम्बन्धनिबन्धनादेकहायनीद्रव्यारुणगुणयोः परस्परसम्बन्धावगमकश्रुतिपरिकल्पनम् । प्राभाकरास्तुं वाक्योदाहरणम् 'अरुणया क्रोणाति' इत्येवमाहुः; क्रीणातिपदारुणपदसम्बन्धात्मकाद् वाक्यादस्मादेवारुणायाः क्रयार्थत्वं प्रतीयते, न तृतीयया श्रुत्या । सा हि कारकमात्रे अक्रियाशेषेऽपि दृष्टा । यथा 'गोदोहनेन पशुकामस्य प्रणयेत्' इति फलार्थत्वादप्रणयनार्थस्यापि गोदोहनस्य कारकतयैव प्रणयनेन सम्बन्धः न प्रणयनशेषतया । यथा च शाल्यर्थं कुल्यानां प्रणीतानां य आचमनपानादिना सम्बन्धो नासावाचमनादिशेषतया अपि तु कारकत्वेन, एवं तृतीयाया अतच्छेषभूतेऽपि प्रयोगदर्शनान्न ततः शेषत्वनिश्वयः, किन्तु पदान्तरसम्बन्धात्मक वाक्यादेव । अतोऽत्र 'अरुणया क्रीणाति' इति न तृतीययैव शेषत्वप्रतिपत्तिः, अपि तु क्रीणातिपदसमभिव्याहारात्मकाद् वाक्या
८
20
25