________________
न्यायमञ्जा
[प्रथमम् .. नन्वर्थादेव कथमर्थान्तरं न कल्प्यते। पीवरत्वं हि नाम भोजनकार्यमुपलभ्यमानं स्वकारणं भोजनमनलमिव धूमः समुपस्थापयतु । तच्च वचसा कालविशेषे निषिद्धं तदितरकालविशेषविषयं भविष्यतीति किं वचनानुमानेन ?
वचनमपि नादृष्टार्थमपि तु अर्थगत्यर्थमेव । तदस्य साक्षादर्थस्यैव कल्प्यमानस्य को 5 दोषो यदव्यवधानमाश्रीयते। उच्यते
शब्दप्रमाणमार्गेऽस्मिन्ननभिज्ञोऽसि बालक । प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः॥ पुरोऽवस्थितवस्त्वंशदर्शनप्राप्तिनिवतिः। प्रत्यक्षादि यथा मानं न तथा शाब्दमिष्यते ॥ वाक्यार्थे हि समग्रांशे परिपूरणसुस्थिते । अभिधाय धियं नास्य व्यापारः पर्यवस्यति ॥ तावन्तं बोधमाधाय प्रामाण्यं लभते वचः। तदर्थवाचकत्वाच्च तद्वाक्यं वाक्यमिष्यते ॥ शब्दैकदेशश्रुत्यातस्तदंशपरिपूरणम् । कल्प्यं प्रथममर्थस्य कुतस्तेन विना गतिः ॥
10
देवेत्याहुः । प्रकरणात् 'समिधो यजति' इत्यादीनां प्रयाजादीनां दर्शपूर्णमासप्रकरशे श्रवणात् तादर्थ्यप्रतिपादकश्रुतिकल्पनम् । स्थानाद् यथा 'दब्धिर्नामास्य दब्धोऽहं भ्रातृव्यं दभेयम्' इति मन्त्रस्योपांशुयाजस्य स्थाने क्रमे सन्निधावाम्नातस्य प्रकरणात्
सकलदर्शपूर्णमासार्थत्वे प्राप्ते स्थानाद् देशसाम्यादुपांशुयाजाभावगमकश्रुतिपरिकल्पनम् । 20 अनाम्नातकर्तृकेषु पुरोडाशादिषु पदार्थेष्वाध्वर्यवमित्यादिसमाख्यया अध्वर्वादिकर्तृकत्व
प्रतिपादयितृश्रुतिकल्पनं यत् तत् समाख्यायाः। .. भावाभावोभयधर्मकस्येति । यदाह . .... नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ।
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ।। इति । .. वाक्यार्थे हि समग्रांशे । वाक्यार्थो हि देवदत्तस्य पीनताख्येन धर्मेण कालविशेषावच्छिन्नस्वकारणभूतभोजननिषेधसहितेन संसर्गः। स यदि रात्रौ न भुङ्क्ते कदा तहि भुङ्क्ते ?, भोजनं विना च कथं पीन इति सापेक्षत्वाद् दुःस्थितो न समग्रैरपेक्षितैरंशैः