________________
आह्निकम् ]
प्रमाणप्रकरणम्
प्रायः श्रुतार्थापत्त्या च वेदः कार्येषु पूर्यते । तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः ॥ या मन्त्रैरष्टकालिङ्गस्तद्विधः परिकल्प्यते । श्रुतिलिङ्गादिभिर्या च कल्प्यते विनियोजिका ॥ विश्वजित्यधिकारश्च यागकर्तव्यताश्रुतेः। उत्पत्तिवाक्यं सौर्यादावधिकारविधिश्रुतेः॥ ऐन्द्राग्न्यादिविकारेषु कार्यमात्रोपदेशतः। यश्च प्रकृतिवद्भावो विध्यन्त उपपाद्यते ॥ तदेवमादौ सम्बन्धग्रहणानुपपत्तितः। श्रुतार्थापत्तिरेवैषा निःसपत्नं विजृम्भते ॥ तया श्रुत्यैकदेशश्च सर्वत्र परिकल्प्यते। अर्थकल्पनपक्षे तु न स्याद्वेदैकगम्यता॥
इत्यर्थापत्तिरुक्तैषा षट्प्रमाणसमुद्भवा। परिपूरितः, यदा सुस्थितो निराकाङ्क्षो भवति तदाऽसौ वाक्येन प्रतिपादितो भवति । भावतस्तु निराकाङ्क्षस्य प्रतिपादकं वाक्यमुच्यते । यदाहुः
- 15 साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।
क्रियाप्रधानं गुणवदेकार्थं वाक्यमुच्यते ॥ समग्रांशपरिपूरणदुःस्थित इति तु पाठे समग्रांशानां परिपूरणाय परिपूरयितुं परिपूरणनिमित्तं दुःस्थित इति व्याख्येयम् । समग्राङ्गपरिपूरणेति तु पाठे स्पष्ट एवार्थः । या मन्त्रैरष्टकालिङ्गरिति ।
20 यां जना अभिनन्दन्ति रात्रि धेनुमिवायतीम्।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥ 'अष्टकायै सुराधसे स्वाहा' इत्यादयो मन्त्रा अष्टकादिकर्मविशेषप्रकाशका दृश्यन्ते, न चाविहितस्य प्रकाशनमस्ति; विहितानां कर्मणां प्रयोगकाले मन्त्रैः प्रकाशनात् । अतो मन्त्रप्रकाशनान्यथानुपपत्तितः 'अष्टकाः कर्तव्या' इति वैदिक विधिपरिकल्पनम् । श्रुति- 25 लिङ्गादिभिर्या चेति प्राग् व्याख्यातम्। विश्वजित्यधिकारश्चेति। 'विश्वजिता यजेत' इति हि तत्रश्रयते, यजेत यागः कर्त्तव्य इति । स च निष्फलः, कथं कर्तव्य इति ? तत्कर्तव्यतासिद्धये