________________
न्यायमञ्जयां
[प्रथमम्
अर्थापत्तो प्रमाणान्तरतानिरासः
एषा विचार्यमाणा तु भिद्यते नानुमानतः ॥ . प्रतिबन्धाद्विना वस्तु न वस्त्वन्तरबोधकम् । यत्किञ्चिदर्थमालोच्य न च कश्चित्प्रतीयते ॥ . . प्रतिबन्धोऽपि नाज्ञातः प्रयाति मतिहेतुताम् । न सद्योजातबालादेरुद्भवन्ति तथाधियः॥ न विशेषात्मना यत्र सम्बन्धज्ञानसम्भवः ।
तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः ॥
अपि च तेन विना नोपपद्यत इति च व्यतिरेकभणितिरियम् । व्यतिरेकश्च 10 प्रतीतः, तस्मिन् सत्युपपद्यत इत्यन्वयमाक्षिपति । अन्वयव्यतिरेको च गमकस्य
लिङ्गस्य धर्म इति कथमर्थापत्तिर्नानुमानम् ? केवलव्यतिरेको हेतुरन्वयमूल एव गमक इति वक्ष्यामः। अतीन्द्रियशक्तेनिविषयत्वप्रदर्शनम्
___ याश्च प्रत्यक्षादिपूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृतास्ताश्च शक्ते15 रतीन्द्रियाया अभावान् निविषया एव ।
फलाक्षेपः, तच्चाधिकारनिमित्तत्वादधिकारशब्देनोक्तं फलम् । अथवा 'विश्वजिता यजेत' इति केवला प्रेरणा श्रूयते। सा च प्रेयं विना कस्येति तस्या अनुपपत्त्या स्वर्गकाम इति प्रेर्यसमर्पकपदपरिकल्पनम् । यागस्य कर्तव्यता तद्विषयप्रेरणावशाद् भवति । अधिक्रियत
इत्यधिकारः स्वर्गकामः प्रेयस्तस्य कल्पना। 'सौर्यं चरु निर्वपेत् ब्रह्मवर्चसकामः' 20 इति अत्र ब्रह्मवर्चसं प्रति सौर्यस्य चरोविधानं श्रूयते। न चानवगतस्वरूपस्यात्र
विधानं सम्भवति । अतोऽधिकारविध्यन्यथानुपपत्त्या कर्मस्वरूपावगमकस्योत्पत्तिविधिकल्पनम् । दर्शपूर्णमासयोहि 'आग्नेयोऽष्टाकपालो भवति' इत्यादिवाक्येभ्योऽवगतस्वरूपयोः स्वर्ग प्रति 'दर्शपूर्णमासाभ्यां यजेत स्वगंकामः' इति विधानात् । 'ऐन्द्राग्नं
चरु निर्वपेत् प्रजाकामः' इत्यादौ कार्यमानं भावनामात्रं करणम्, फलञ्च आग्नेयेन 25 चरुणा भावयेदिति निर्दिष्टम् । कथमंशस्तु नोपदिष्टः । न चानुपकृतं करणं भवतीति
करणरूपतान्यथानुपपत्त्या 'प्रकृतिवद् विकृतिः कर्तव्या' इति कल्प्यते। उपदिष्टेतिकर्तव्यताकं कर्म प्रकृतिः, अनुपदिष्टेतिकर्तव्यताकं तु विकृतिः। विध्यन्त इतिकर्तव्यता।