________________
आह्निकम् ]
प्रमाण प्रकरणम्
स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात् । न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥
ननु शक्तिमन्तरेण कारकमेव न भवेत् । यथा पादपं छेत्तुमनसा परशुरु - म्यते तथा पादुकाद्यपि उद्यम्येत । शक्तेरनभ्युपगमे हि द्रव्यस्वरूपाविशेषात्सर्वस्मात् सर्वदा कार्योदयप्रसङ्गः । तथा हि विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां 5 मन्त्रप्रतिबद्धायां स्वरूपप्रत्यभिज्ञायां सत्यामपि कायदासीन्यं यद् दृश्यते तत्र का युक्ति: ? न हि मन्त्रेण स्वरूपसहकारिसान्निध्यं प्रतिबध्यते, तस्य प्रत्यभिज्ञायमानत्वात् । शक्तिस्तु प्रतिबध्यत इति सत्यपि स्वरूपे सत्स्वपि सहकारिषु कार्यानुत्पादो युक्तः । किञ्च सेवाद्यर्जनादिसाम्येऽपि फलवैचित्र्यदर्शनादतीन्द्रियं किaft कारणं कल्पितमेव धर्मादिर्भवद्भिः, अतः शक्तिरतीन्द्रिया तथाभ्युपगम्यतामीति ।
तदेतदनुपपन्नम् । यत्तावदुपादाननियमादित्युक्तम्, तत्रोच्यते न हि वयमद्य किश्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः, किन्तु यथाप्रवृत्तमनुसरन्तो व्यवहरामः । न ह्यस्मदिच्छया आपः शीतं शमयन्ति कृशानुर्वा पिपासाम् । तत्र च्छेदनादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा, परश्वधादेरेव कारणत्वमध्यवगच्छाम इति तदेव तदर्थन उपादद्महे न पादुकादीति । न च परश्वधादेःस्वरूपसन्निधाने सत्यपि सर्वदा कार्योदयः स्वरूपवत् सहकारिणामप्यपेक्षणीयत्वात्, सहकार्यादिसन्निधानस्य सर्वदानुपपत्तेः । सहकारिवर्गे च धर्मादिकमपि निपतति, तदपेक्षे च कार्योत्पादे कथं सर्वदा तत्सम्भवः ? धर्माधर्मयोश्व वैचित्र्यं कार्यबलेन कल्पनमपरिहार्यम् । तयोश्च न शक्तित्वादतीन्द्रियत्वम् । अपि तु स्वरूप महिम्नैव मनः परमाण्वादिवत् ।
यद्यपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात्तत्कार्यादर्शनम्, तदपि न शक्तिप्रतिबन्धननिबन्धनमपि तु सामग्रयन्तरानुप्रवेशहेतुकम् ।
६१
ननु मन्त्रिणा प्रविशता तत्र किं कृतम् ? न किञ्चित्कृतम् । सामग्रयन्तरन्तु सम्पादितम्, काचिद्धि सामग्री कस्यचित्कार्यस्य हेतुः । स्वरूपं तदवस्थमेवेति चेद् । यद्येवमभक्षितमपि विषं कथं न हन्यात् ? तत्रास्य संयोगाद्यपेक्षणीयमस्तीति चेन्मन्त्राभावोऽप्यपेक्ष्यताम् । दिव्यकरणकाले धर्म इव मन्त्रोऽप्यनुप्रविष्टः कार्यं
10
15
20
25