________________
न्यायमञ्जयां
[प्रथमम् प्रतिहन्ति। शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः ? मन्त्रेण हि शक्त शो वा क्रियते, प्रतिबन्धो वा । न तावन्नाशः, मन्त्रापगमे पुनस्तत्कार्यदर्शनात् । प्रतिबन्धस्तु स्वरूपस्यैव शक्तेरिवास्तु । स्वरूपस्य किं जातम् ? कायौदासीन्यमिति
चेत् तदितरतोपि समानम् । स्वरूपमस्त्येव दृश्यमानत्वादिति चेच्छक्तिरप्यस्ति 5 पुनः कार्यदर्शनेनानुमीयमानत्वादिति ।
किञ्च शक्तिरभ्युपगम्यमाना पदार्थस्वरूपवन्नित्याभ्युपगम्येत, कार्या वा ? नित्यत्वे सर्वदा कार्योदयप्रसङ्गः । सहकार्यपेक्षायान्तु स्वरूपस्यैव तदपेक्षास्तु किं शक्त्या ? कार्यत्वे तु शक्तेः पदार्थस्वरूपमात्रकार्यत्वं वा स्यात् सहकार्या
दिसामग्रीकार्यत्वं वा। स्वरूपमात्रकार्यत्वे पुनरपि सर्वदा कार्योत्पादप्रसङ्गः, 10 सर्वदा शक्तरुत्पादात् । सामग्रीकार्यत्वे तु कार्यमस्तु किमन्तरालवतिन्या शक्त्या ?
अशक्तातकारकात्कार्यं न निष्पद्यत इति चेच्छक्तिरपि कार्य तदुत्पत्तावप्येवं शक्त्यन्तरकल्पनादनवस्था। आह दृष्टसिद्धये ह्यदृष्टं कल्प्यते न तु दृष्टविधाताय । शक्त्यन्तरकल्पनायां शक्तिश्रेणीनिर्माण एव क्षीणत्वात् कारकाणां कार्यविघातः स्यादित्येकैव शक्तिः कल्प्यते । तत्कुतोऽनवस्था ?
अत्रोच्यते यद्यदृष्टमन्तरेण दृष्टं न सिद्धयति काममदृष्टं कल्प्यताम् । अन्यथाऽपि तु तदुपपत्तौ किं तदुपकल्पनेन ? दर्शिता चान्यथाप्युपपत्तिः । कल्प्यमानमपि चादृष्टं तत्कल्प्यतां यदनवस्थां नावहेत धर्मादिवत्। अपि च व्यापारोऽप्यतीन्द्रियः शक्तिवदिष्यते भवद्भिः, अन्यतरकल्पनयैव कार्योपपत्तेः किमुभयकल्पनागौरवेण ? शक्तमव्याप्रियमाणं न कारकम, कारकमिति चेत्तच्छक्त
मिति। तथा कथं जानामि, कार्यदर्शनाज्ज्ञास्यामीति चेद्वयापारादेव कार्य 20
सेत्स्यति। पादुकादेाप्रियमाणादपि न पादपच्छेदो दृश्यत इति चेत् प्रत्यक्षस्तहि व्यापारो नातीन्द्रियो, यतः कार्यदर्शनात्पूर्वमपि व्याप्रियमाणत्वं ज्ञातमायुष्मता । कार्यानुमेयो हि व्यापारः कार्य विना न ज्ञायेतैव । कार्य त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यलं प्रसङ्गन प्रकृतमनुसरामः।
तस्मादतीन्द्रियायाः शक्तरभावानिविषया यथोदाहृतास्ता अर्थापत्तयः।
भवन्त्यपि वा शक्तिरतीन्द्रियाऽनुमानस्यैव विषयः, कार्यकारणपूर्वकत्वेन व्याप्तिग्रहणात् स्वरूपमात्रस्य च कारणत्वानिर्वहणादधिकं किमप्यनुमास्यते। सा शक्तिरिति।
15