________________
आह्निकम् ]
प्रमाणप्रकरणम्
शब्दनित्यत्वसिद्धौ तु यार्थापत्तिरुदाहृता।
तस्याः शब्दपरीक्षायां समाधिरभिधास्यते ॥ अभावपूर्विकार्थापत्तिखण्डनम् ___ अभावपूर्विकाप्यर्थापत्तिरनुमानमेव। जीवतो गृहाभावेन लिङ्गभूतेन बहिर्भावावगमात् । चैत्रस्य गृहाभावो धर्मी बहिर्भावेन तद्वानिति साध्यो धर्मः 5 जीवन्मनुष्यगृहाभावत्वात् पूर्वोपलब्धैवंविधगृहाभाववत् । यथा धर्मी वह्निमानिति साध्योऽर्थः धूमत्वात् पूर्वोपलब्धधूमवदिति । अतश्च गृहादीनां लिङ्गत्वाशङ्कनम् अपाकरणञ्चाडम्बरमात्रम् । ___ यत्पुनः प्रमेयानुप्रवेशदूषणमभ्यधायि, तदपि न साम्प्रतम् । किं प्रमेयमभिमतमत्र भवताम् ? किं सत्तामात्रम्, उत बहिर्देशविशेषितं सत्त्वम् । सत्तामात्रं 10 तावदागमादेवावगतमिति न प्रमाणान्तरप्रमेयतामवलम्बते। बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयम्, तस्य तु तदानीमनुप्रवेशः कुतस्त्यः ? गृहाभावग्राहक हि प्रमाणं गृह एव सदुपलम्भकप्रमाणावकाशमपाकरोति, बहिर्न सदसत्त्वचिन्तां प्रस्तौति । वृद्धस्य जीवतो दूरे तिष्ठतः प्राङ्गणेऽपि वा।
15 गृहाभावपरिच्छेदे न विशेषोऽस्ति कश्चन ॥ जीवनविशिष्टस्त्वसौ गृह्यमाणो लिङ्गतामश्नुते व्यभिचारनिरासात् । न च विशेषणग्रहणमेव प्रमेयग्रहणम् । जीवनमन्यदन्यच्च बहिर्भावाख्यं प्रमेयम् । - ननु जीवनविशिष्टगृहाभावप्रतीतिरेव बहिर्भावप्रतीतिः ? नेतदेवम् । जीवनविशिष्टगृहाभावप्रतीतेर्बहिर्भावः प्रतीतः । न तत्प्रतीतिरेव बहिर्भावप्रतीतिः 20 न हि दहनाधिकरणधूमप्रतीतिरेव दहनप्रतीतिः। किन्तु धूमादन्य एव दहनः । इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः । पर्वतहुतवहयोः सिद्धत्वान्मत्वर्थमात्र तत्रापूर्वमनुमेयम् । एवमिहापि बहिर्देशयोगमात्रमपूर्वमनुमेयम् । यदि तु तदधिकं प्रमेयमिह नेष्यते तदा गृहाभावजीवनयोः स्वप्रमाणाभ्यामवधारणादानर्थक्यमर्थापत्तेः। तस्मात्प्रमेयान्तरसद्भावात्तस्य च तदानीमननुप्रवेशान्न 25 प्रमेयानुप्रवेशो दोषः । अर्थापत्तावपि च तुल्य एवायं दोषः । तत्राप्यर्थादर्थान्तरकल्पनाभ्युपगमात् । दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पनेत्येव ग्रन्थोप