________________
६४
न्यायमञ्जय
[ प्रथमम्
निबन्धात्, तस्य तस्मात्प्रतीतिरिति तत्र व्यवहारः, तत्रावाच्यतत्प्रतीतौ तदनुप्रवेशो दोष एव, स्वभावहेताविव तद्बुद्धिसिद्धया तत्सिद्धेः प्रमाणान्तरवैफल्यादिति । प्रभाकरमतेऽर्थापत्तिसमर्थनम्
प्राभाकरास्तु प्रकारान्तरेणानुमानाद्भेदमत्राचक्षते । अनुमाने गमकविशेषण5 मन्यथानुपपन्नमनलं विना धूमो हि नोपपद्यते । इह तु विपर्ययः, गम्यो गमकेन faar नोपपद्यते । गम्धो बहिर्भावः, स जीवतो गृहाभावं विना नोपपद्यते । "गृहान्निर्गतो जीवन् बहिर्भवतीति" भाष्यमप्येवं योजयन्ति । दृष्टः श्रुतो वार्थोऽर्थकल्पना अर्थान्तरं कल्पयतीत्यर्थः । यतः सा कल्पना प्रमेयद्वारिकाऽन्यथा नोपपद्यते, कल्प्यमानोऽर्थोऽन्यथा नोपपद्यते स च गम्य इति ।
10 प्रभाकरम तखण्डनम्
एतदपि ग्रन्थवैषम्योपपादनमात्रम्, न तु नूतन विशेषोत्प्रेक्षणम् । गम्ये तावदगृहीते सति तद्गतमनुपपद्यमानत्वं कथमवधार्येत ? गृहीते तु गम्ये किं तद्गतानुपपद्यमानत्वग्रहणेन ? साध्यस्य सिद्धत्वात् । पुरा तद्गतमन्यथाऽनुपपद्यमानत्वं गृहीतमासीदिति चेद् । अहो महाननुमानाद्विशेषः । इदं हि पूर्वं प्रतिबन्ध15 ग्रहणमुक्तं स्यात् ।
20
स्वभावहेताविवेति । वृक्षोऽयं शिशपात्वादित्यत्र यावदेव शिशपाख्यो भावो गृहीतस्तावदेव वृक्षत्वमपि तत्स्वभावो गृहीत एव । तद्ग्रहणे तस्याग्रहणात् तत्स्वभावतैव न स्यादित्यर्थः ।
"
भाष्यमप्येवं योजयन्तीति । दृष्टः श्रुतो वार्थोऽर्थकल्पना अर्थस्य कल्पकः, कस्यार्थस्येत्यपेक्षायां योऽन्यथा नोपपद्यते तस्येति योजना प्रभाकरपक्षे । ननु समासान्तर्गतेनार्थशब्देन कथमन्यथा नोपपद्यत इत्यस्य सम्बन्धः, तत्र गुणीभूतत्वादर्थशब्दस्य । नैवम्, कल्पनाशब्देनापि सम्बन्धेऽन्यथा नोपपद्यत इत्यस्यायमेवार्थो लभ्यते यतः । इदमेवाह यतः सा कल्पना प्रमेयद्वारिकेति । प्रमेयद्वारिका प्रमेयमुखेन अन्यथा नोपपद्यते, प्रमेयस्यान्यथानुपपद्यमानत्वात्, 'साऽन्यथा नोपपद्यते' इत्युच्यते न साक्षादित्यर्थः । 25 तदेवाह 'कल्प्यमानोऽर्थोऽन्यथा नोपपद्यते ' इति ।