________________
प्रमाणप्रकरणम्
आह्निकम् ]
अपि च बहिर्भावस्य गृहाभावं विनाऽनुपपत्तिरिति उक्त तस्मिन्सति । तस्योपपत्तिर्वक्तव्यः । सा च का ? किमुत्पत्तिर्जप्तिर्वा ? यदि ज्ञप्तिः, सा चानुमानेऽपि गम्यं गमकं विना नास्ति तस्मिन्सत्यस्तीति समानः पन्थाः।
उत्पत्तिस्तु गृहाभावाद् बहिर्भावस्य दुर्भणा। प्राक् सिद्धे हि गृहाभावे तदुत्पादः क्षणान्तरे ॥ कारणं पूर्व सिद्धं हि कार्योत्पावाय कल्पते।
तेनैकत्र क्षणे जीवन्न गृहे न बहिर्भवेत् ॥ . तस्माद्यत्किञ्चिदेतत्। अर्थापत्तेः स्वरूपान्तरखण्डनम्
एवञ्च यदेके ज्ञप्त्युत्पत्तिकृतमिह वैलक्षण्यमुत्प्रेक्षितवन्तो धूमेनाग्निर्गम्यत 10 एव, गृहाभावेन बहिर्भावो जन्यतेऽपीति, तदपि प्रत्युक्तं भवति ।
यत्तु सम्बन्धग्रहणाभावादित्युक्तम्, तदपि न सुन्दरम् । ( मन्दिराशुद्धम द्वारत्तिनस्तदुत्पत्तेः ? )।
एतच्च स्वयमाशङ्कय न तैः प्रतिसमाहितम् ।
उदाहरणमन्यत्तु व्यत्ययेन प्रदर्शितम् ॥ गृहभावेन बहिरभावकल्पनमिति तत्रैव, तदेव। तदेव वक्तव्यम् । इयमभावपूर्विका न भवत्येवार्थापत्तिः। षडापत्तीः प्रतिज्ञायेमामभावपूर्विकामपत्ति. उदाहरणमन्यत् तु व्यत्ययेन प्रदर्शितमिति । तथाह
गृहद्वारि स्थितो यस्तु बहिर्भाव प्रकल्पयेत् ।
यदा तस्मिन्नयं देशे न तदान्यत्र विद्यते ॥ इति वात्तिक भाष्योदाहृतार्थापत्तेः प्रत्यक्षेणापि हि बहिर्भावं प्रतिपद्य गृहाभावेन सह सम्बन्धग्रहणादर्थापत्तिपूर्वकत्वाभावादनुमानेऽन्तर्भावमाह । इमञ्चान्तर्भावमनिराकृत्यैवोदाहरणान्तरं चित्ते विधायाह
"तदाप्यविद्यमानत्वं न सर्वत्र प्रतीयते। - न चैकदेशनास्तित्वात् व्याप्तिहेतोर्भविष्यति ॥” इति
गृहव्यवस्थितं चैत्रमुपलभ्य तस्मिन्नेव काले तदन्यथानुपपत्त्यैव सर्वत्राभावमुपलभ्य तस्य गृहव्यवस्थितदेवदत्तभावेनाविनाभावग्रहणे तत्रार्थापत्तिपूर्वकत्वमेव
20
___25