________________
६६
न्यायमञ्जयां
[प्रथमम् मुत्कोपन यायिककटाक्षपातभीतामिह गहने हरिणीमिव यदुपेक्ष्य गम्यते तदत्यन्तमत्रभवतामनार्यजनोचितं चेष्टितम् ।।
त्वदेकशरणां वालामिमामुत्सृज्य गच्छतः।
कथं ते तर्कयिष्यन्ति मुखमन्या अपि स्त्रियः ॥ भावेनाभावकल्पना तु प्रत्यक्षपूविकैवार्थापत्तिः। तस्याऽपि च न दुरवगमः सम्बन्धः। असर्वगतस्य द्रव्यस्य नियतदेशवृत्तेरक्लेशेन तदितरदेशनास्तित्वावधारणात् । अनग्निव्यतिरेकनिश्चये च धूमस्य, भवतां का गतिः ? या तत्र वार्ता, सैवेहापि नो भविष्यति । न च भूयोदर्शनावगम्यमानान्वयमात्रैकशरणतया।
सम्बन्धग्रहणस्य । ननु चैत्राधिष्ठितदेशव्यतिरिक्तसमीपदेशे चैत्रस्याभावेनाभावं प्रतिपद्या10 भावेनाविनाभावग्रहणात् किमुच्यतेऽर्थापत्तिपूर्वकत्वमित्याशङ्क्याह-'चैकदेशनास्ति
त्वात्' इति । चैत्राधिष्ठितव्यतिरिक्तानन्तदेशगतो ह्यभावो भावस्य सम्बन्धी, न सन्निकृष्टव्यतिरिक्तदेशगत एव । तस्य च प्रमाणान्तरेणाभावेनाप्यवगमाभावादापत्तिपूर्वकत्वम् । दृश्यस्य ह्यनुपलब्धिरूपेणाभावेनाभावः सिद्धयति । न च विप्रकृष्टदेशे दृश्यतास्तीति एकदेशनास्तित्वमात्रात् केवलान्न हेतोरुत्तरकालमभावानुमापकस्य गृहसद्भावस्य' व्याप्तिग्रहोऽस्तीत्यर्थः । इत्थमेतदुम्बेकादिदृष्टया वात्तिकव्याख्यानम्, तदनुयायिना ग्रन्थकृतापि तदेवानुसृत्योक्तम् । तत्त्वतस्तु 'तदाप्यविद्यमानत्वम्' इति वात्तिकं व्याख्यायमानं प्रकृतोदाहरणसमर्थनेऽपि सङ्गच्छते। तदा ह्ययमर्थः तदा-- पीत्यस्य यदापि द्वारि स्थितस्तदापि दृश्यानुपलम्भादभावो गृहे सिध्यतु, न पुनः सर्वत्र प्रतीयते, दृश्यत्वाभावात्, अतः सर्वत्राभावनिश्चयेऽर्थापत्तेरेव व्यापारः । अयं भावःगृहे यदा न तदा, बहिरित्येवं व्याप्ती गृहीतायां गृहेऽदर्शनाद् बहिर्भावः सिद्धयति, न चैवमर्थापत्ति विना व्याप्तिग्रहः सम्भवति, दूरदेशे अभावस्याप्यवगन्तुमशक्यत्वात्; अतोऽर्थापत्त्या एकदेशभावान्यथानुपपत्तिरूपया देशान्तरेऽप्यभावकल्पनेति । ननु भावस्याभावेन सह सम्बन्धग्रहणाद् भावलिङ्गेनैवाभावावगतिरित्याह 'न चैकदेश
नास्तित्वाद् गृहाभावाद् गृहीतात् कारणात् सर्वाभावतोलिङ्गस्य व्याक्षिसिद्धिः' । 25 अयमर्थः भावाख्यं लिङ्गमभावावगतौ येन सह गृहीतसम्बन्धं तस्यैव गमकं भवितुमर्हति,
गृहाभावेन च तस्य सम्बन्धग्रहो वृत्तोऽतस्तस्यैव गमकं भवतु; न च गृहाभावेन सह व्यप्तिर्गृहीता या सर्वा भावैः सह व्याप्तिः सिद्धयति, अतिप्रसङ्गादित्यलमप्रकृताभिधानेन