________________
आह्निकम् ]
प्रमाणप्रकरणम्
७
यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति ।
मम त्वदृष्टिमात्रेण गमकाः सहचारिणः॥ ___इति कथयितुमुचितम्। अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति दर्शयिष्यामः । पक्षधर्मान्वयव्यतिरेकोऽपि नागृहीतोऽनुमानाङ्गम् । बहिरभावसिद्धौ चानुमानप्रयोगः स एव यस्त्वया दर्शिनः । प्रतिपक्षप्रयोगः प्रत्यक्षादिविरुद्धत्वा- 5 द्धत्वाभास एवेत्यलं प्रसङ्गेन। श्रुतार्थापत्तिखण्डनम
श्रुतार्थापत्तिरपि वराको नानुमानाद्भिद्यते । वचनैकदेशकल्पनाया अनुपपन्नत्वाद् अर्थस्य च कार्यलिङ्गस्य सत्त्वात् । यथा, क्षितिधरकन्दराधिकरणं धूममवलोक्य तत्कारणमनलमनुमिनोति भवान्, एवमागमात्पीनत्वाख्यं कार्यमवधार्य 10 तत्कारणमपि भोजनमनुमिनोतु। कोऽत्र विशेषः ? तत्कार्यतया भूयोदर्शनतः प्रतिपन्नत्वात् । लिङ्गस्य तु क्वचित्प्रत्यक्षेण ग्रहणम्, क्वचिद्वचनतः प्रतिपत्तिरिति, नेष महान्भेदः,।
ननु वचनमपरिपूर्णमिति प्रतीतिमेव · यथोचितां जनयितुमसमर्थम् । कि 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यतो न भवति तत्पीनताप्रतीतिः ? 15 न । न भवति, साकाङ्क्षा तु भवति, न च साकाङ्क्षप्रतीतिकारिणस्तस्य प्रामाण्यमिति तदेव तावत्पूरयितुं युक्तम् । तदसत्-कस्यात्र साकाङ्क्षत्वम् ? किं शब्दस्य ? किं वा तदर्थस्य, ? उत स्वित्तदवगमस्येति। शब्दस्य तावदर्थनिरपेक्षस्य न काचिदाकाङ्क्षानभिव्यक्तशब्दवत् । अर्थस्तु साकाङ्क्षः सन्नर्थान्तरमुपकल्पयतु, कोऽवसरो वचनकल्पनायाः । अवगमोऽप्यर्थविषय 20 एव साकाङ्क्षो भवति, न शब्दविषयः श्रोत्रकरणकः। तस्मादवगमनैराकाङ्क्षयसिद्धये तदर्थकल्पनमेव युक्तम्। वचनैकदेशकल्पनमप्यर्थावगतिसिद्ध्यर्थमेवेति तत्कल्पनमेवास्तु किं सोपानान्तरेण।
-
___ममत्वदृष्टिमात्रणेति । अस्य पूर्वमर्धम् 'यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति' इति । अस्थार्थ:-यस्य वादिनो बौद्धस्य वस्त्वन्तराभावोऽनग्निव्यावृत्तिलक्षणोऽनु- 25 मानगम्यस्तस्य तत्तद्देशानवगमरूपो दोषः। यावत् सर्वानग्निव्यावृत्तान् देशान् नावगच्छति तावद् व्यतिरेकग्रहो न सिद्धयतीत्येवंरूपः। ननु चान्याद्यभावेऽपि