________________
६८
[ प्रथमम्
यत्तु कल्प्यमानस्यावैदिकत्वमर्थस्य प्राप्नोतीति ? तत्र वचनकल्पनापक्षे सुतरामवैदिकः सोऽर्थः स्यात्, कल्प्यमानस्य वचनस्य वेदादन्यत्वात् श्रुतोऽनुमितश्च द्विविधः स वेद एवेति चेत्, श्रौतार्थः श्रौतार्थानुमितो द्विविधः स वेदार्थ एव भविष्यतीति किं वचनसोपानान्तरकल्पनया ? तेन श्रूयमाणवेदवचनप्रति5 पाद्यार्थ सामर्थ्य लभ्यत्वादेव तस्य वेदार्थता भविष्यति । सर्वथा न वचनैकदेशविषया श्रुतार्थापत्तिः श्रेयसी । श्रुत्येकदेश कल्पनापक्षप्रतिक्षेपाच्च तदतीन्द्रियतया सम्बन्धग्रहणमघटमानमिति यदुक्तं तदपि प्रत्युक्तम् । अर्थे तु सामान्येन सम्बन्धग्रहणमपि सूपपादम् । तत्र तत्र बज्यादेरर्थस्याधिकाराद्यर्थान्तरासंबद्धस्य दृष्टत्वादिति ।
न्यायमञ्जय
प्राभाकरास्तु 'दृष्टः श्रुतो वेति' भाष्यं लौकिकमभिधानान्तरमेवेदमुपलब्धि10 वचनमिति वर्णयन्तः श्रुतार्थापत्ति प्रत्याचक्षते । श्रूयमाणस्यैव शब्दस्य तावत्यर्थे सामर्थ्यमुपगच्छन्तः तमर्थं शाब्दमेव प्रतिजानते वाक्यस्य दूराविदूरव्यवस्थित - गुणागुणक्रियाद्यनेककारककलापो परक्तकार्यात्मकवाक्यार्थप्रतीताविषोरिव दीर्घदीर्घो व्यापारः । अविरतव्यापारे च शब्दे सा प्रतीतिरुदेति । तद्वयापारविरतौ नोदेति तदुत्पादककारकाभावात् । बृद्धव्यवहारतश्च शब्देषु व्युत्पाद्यमानो लोकस्तथा
15 धूमादिव्यतिरेकि ( अवाच्यान्यक्षराणि) त्र वाक्यस्यैव तत्प्रतिपत्तिहेतोर्व्यापारः । कार्यं हि तेन प्रतिपाद्यम् । निराकाङ्झस्य च तस्य प्रतिपादने तत्प्रतिपादितं भवति इति तात्पर्यम् ।
25
दूराविदूरेति दूरव्यवस्थिता गुणीभूता अङ्गभूतायाः क्रियाः, अदूरव्यवस्थिता अगुणभूताश्च प्रधानक्रियाः । दूरव्यवस्थितत्वं भिन्नवाक्योपादानत्वम् । तथाहि 'आग्नेयोऽष्टाकपालो भवति' इत्यादिभिर्वाक्यः प्रधानक्रिया उपात्ताः, 'समिधो यजति ' 20 इत्यादिभिस्तु गुणक्रियाः । एतत्तु 'दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः' इत्यधिकारवाक्यापेक्षयोत्पत्तिवाक्यानामुक्तम् । क्वचित्तु अदूरव्यवस्थिता एकवाक्योंपात्ता गुणागुणक्रियाः । तद्यथा " एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येन यजेत" इति । अथ हि वारवन्तीयकरणं गुणक्रिया अन्यस्योत्पत्तिवाक्यस्याभावात्, यागश्च प्रधानक्रियानेनैवोपात्ता । आदिग्रहणाद् द्रव्यदेवतातद्विशेषणा
दीनामवरोधः । एवमादिनानेकेन कारककलापेनोपरक्तः कार्यान्तराद् व्यवच्छिन्नः कार्यात्मा यो वाक्यार्थः । अथवा गुणक्रिया द्रव्यं प्रति गुणत्वेन स्थिता द्रव्यचिकीर्षकत्वेन व्यवस्थिता या अवघातादयः, याचागुणक्रिया नियोगार्थाः समिदादयस्ताः ।