________________
आह्निकम् ]
प्रमाणप्रकरणम्
भूतवाक्यव्यवहारिणो वृद्धान् पश्यन्वाक्यस्य च तादृशवाक्यार्थे सामर्थ्यमवधारयति । तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ति । नैमित्तिकानुकूल्यपर्यालोचनया क्वचिदश्रूयमाणान्यपि तानि निमित्ततां भजन्ते, विश्वजिदादौ स्वर्गकामादिपदवत् क्वचिच्छ यमाणान्यपि तदननुकूलत्वात्परित्यज्यन्ते,
दूरव्यवस्थिता विकृतिषु प्रकरणान्तरोपात्तत्वेन, अदूरव्यवस्थिताश्चैकप्रकरणत्वेन 5 प्रकृतिषु; अन्यत् समानम् । कारकत्वन्तु क्रियाद्रव्यादीनां साक्षात् पारम्पर्येण च; नियोगसंपत्तेस्तदधीनत्वात्, न पुनर्घटादाविव मृदादीनां प्रवृत्तिविषयत्वेन कारकत्वम् । प्रवृत्तिप्रयोजनं हि नियोगो, न प्रवृत्तिविषय इति प्राभाकराः तत्सिद्धये हि धात्वर्थे प्रवर्तन्ते, न तु तत्रैवेति । तदनुवर्तीनि तु पदानि तस्मिन्नमित्तिके निमित्तानि भवन्तीति ह्यस्यायमाशयः यदि पदानां वाक्यार्थावधृतौ सामर्थ्यमन्यतोऽवघृतं स्यात् तदा तदनुसारितया 10 वाक्यार्थप्रत्ययोऽपि भवेत्; यदा पुनर्वाक्यार्थस्य कार्यरूपस्य प्रवृत्तिलक्षणेन ब्यवहारेणावगमात् तत्रावापोद्वापाभ्यां पदानां निमित्तत्वमवगम्यते तदा यथावगतनिमित्तनैमित्तिकानुसरणादेव । यथा पदानां निमित्तत्वं सङ्गच्छते तथा अवगन्तव्यम् । अत एव वाचकत्वादन्यन्निमित्तत्वम्। वाचकत्वं सम्बन्धग्रहणसापेक्षत्वेन, निमित्तत्वं पुनस्तस्मिनिरपेक्षत्वेन वाक्यार्थावगमं प्रति । अन्यथा प्रथमश्रुताद् वाक्यादर्थप्रतिपत्तिर्न स्यात् । 15 नैमित्तिकानुकूल्यपर्यालोचनयेति । नैमित्तिकं नियोगानुकूल्यम्, अधिकारिणि सति तस्य सम्पत्तिसिद्धेः। क्वचिच्छ यमाणान्यपीति । दर्शपूर्णमासयोः 'ऐन्द्रं दधि, ऐन्द्र पयः' इति प्रधानं हविर्द्वयं विधायोक्तम् यस्योभयं हविरातिमाच्छेत् ‘स ऐन्द्रं पञ्चशरावमोदनं निर्वपेत्' इति । यस्य हविरातिमाच्छेत् हविर्यागायोग्यतां व्रजेदिति । हविरातिगमननिमित्ता पञ्चशरावौदनकर्तव्यता प्रतीयते। हविषश्चातिङ्गतस्य विधेयपञ्चशरावप्रवण- 20 त्वेन प्रतीतस्योभयविशेष्यत्वाश्रयणे तु स्वार्थत्वपरार्थत्वलक्षणं विरुद्ध रूपद्वयं प्रसज्यते । हविश्वेदातिमार्छत् तच्चोभयमित्युभयपदेन च विशेष्यत्वे हविषोऽभिधानावृत्तिलक्षणो वाक्यभेदः प्रसज्यते । हविरातिमाछंदित्येकवारभुच्चारितं हविरिति तच्चेद्धविरुभयमिति पुनरुच्चारयितव्यं प्रसज्यते । तत उद्देश्यत्वाद् ग्रहाद्येकत्ववद् विशेषणाविवक्षा । तस्माद्धविरातिगमननिमित्तैव पञ्चशराबौदनकर्तव्यता। उभयपदन्तु श्रुतमपि न विवक्षितम्। उभयमुभयात्मकं यदेतद्धविः प्रक्रान्तमित्यनुवादमात्रतयैव समन्वयो न विवक्षितत्वेनेति यावत् । यथा यावेतावुभौ चाण्डालौ गच्छन्तौ पश्यसि तौ न स्प्रष्टव्यौ, यदि स्पृशेः तत्