________________
न्यायमञ्जयां
[प्रथमम्
'यस्योभयं हविरात्तिमाछेदि तिवत्, । क्वचिदन्यथा स्थितानि तदनुरोधादन्यथैव स्थाप्यन्ते 'प्रयाजशेषेण हवींष्यभिघारयती'तिवत्, तस्मात्प्रथमावगतैकघनाकारवाक्यार्थानुसारेण सतामसतां वा पदानां निमित्तभावव्यवस्थापनादश्रूयमाणतथाविधैकदेशादपि वाक्यात्तदर्थावगति सम्भवात् किं श्रुतार्थापत्त्या ? अत एव च न सोपानव्यवहितं तस्थार्थस्य शाब्दत्वम्, साक्षादेव तत्सिद्धेः । न च श्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः, अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयामः ।
उच्यते श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्नावकल्पते किन्तु नैमित्तिकानुसारद्वारक इत्युक्तम् । एवमश्रुतेष्वपि भविष्यति, न यजौ करण
विक्ति शृणुमो, न स्वर्गे कर्मविक्ति, नाग्निचिदादिषु क्विपप्रत्ययं, नाधुनादिषु 10 प्रकृति, न समासतद्धितेषु यथोचितां विभक्तिमपि च प्रतीम एव तदर्थम् । एवं
स्नायाः इति अत्रैकचाण्डालस्पर्शेऽपि स्नानादुभावित्यस्याविवक्षा । यथा च यद्येतावुभौ व्याधितौ स्यातां तदोषधं देयमित्येकस्यापि व्याधितत्वे ओषधदानम् । ... क्वचिदन्यथा स्थितानीति । 'प्रयाजशेषेण हवींष्यभिघारयेत्' [ ? ] इत्यत्र
शेषवाचोयुक्त्यैव प्रयाजशेषस्य कर्मान्तरं प्रति गुणत्वं न सम्भवति, प्रयाजार्थत्वेन 15 गृहीतस्थाज्यस्य यच्छेषं तदपि प्रयाजार्थमेव, अतस्तस्याज्यार्थताकरणस्यासम्भवात्
प्रतिपत्तिकर्मतैव न्याय्या । प्रतिपत्तिकर्मत्वे च प्रयाजशेषस्य प्रतिपाद्यमानत्वात् प्रधानत्वेन द्वितीयानिर्देश एव युक्तः । 'कृष्णविषाणाणां चात्वाले प्रास्यति' इति [?] कृष्णविषाणाया इव हविषां चाधारत्वेन सप्तमीति निर्देश एव युक्तश्चात्वाल इतिवत् । तेन प्रयाजशेषं हविष्वभिधारयेदिति प्रतिपत्तिकर्मत्वेन वाक्यार्थानुगुण्यात् समन्वयो युक्तः। प्रतिपत्तिरेव हि तदा प्रयाजशेषस्याज्यस्य दृष्टार्था । अतः परं हि जुह्वामाज्यभागार्थमाज्यं ग्रहीतव्यम्, तत्परार्थेनाज्येनामिश्रितं कर्तव्यमवश्यं तच्छेषं परित्यक्तव्यम्। परित्याग एव च विशिष्टेन रूपेण प्रतिपत्तिः, यथेश्वरशिरोवृतस्य मालादेविशिष्ट प्रदेशे त्यागो न यत्र तत्र । समिदादयः पञ्चाङ्गयागाः प्रयाजाख्याः ।
अत एव च न सोपानव्यवहितमिति । श्रुतार्थापत्तिरत्र सोपानम् । 25 न यजौ करणविभक्तिमिति । 'स्वर्गकामो यजेत' इत्येतावत् तावच्छ्र यते, न
तु यागः करणम्, स्वर्गः फलमिति; तथापि वाक्यार्थभूतनियोगसामर्थ्यलभ्यमेतद् उभयो रूपम् । तथाहि स्वर्गकामो यागानुष्ठाने नियुज्यते । स च तत्रान्यदिच्छत्यन्यत् करोतीति