________________
प्रमाणप्रकरणम्
आह्निकम् ] विश्वजिदादावपि यजेतेति नैमित्तिकबलादेव स्वर्गकामादिपदार्थ प्रत्येष्यामः । नियोगगर्भत्वाच्च विनियोगस्य, लिङ्गादीनि श्रुतिकल्पनामन्तरेणापि नियोगव्यापारपरिगृहीते वस्तुनि विनियोजकता प्रतिपत्स्यन्ते।
नन्वेवं सति सर्वत्र शब्दव्यापारसम्भवात्। मुख्यस्यापि भवेत्साम्यं गौणलाक्षणिकादिभिः ॥
5
न्यायात् कथं प्रवर्तेत ? न च यागेऽप्रवृत्ती नियोगः सम्पत्ति लभत इति नियोग एव स्वसिद्धये यागस्य करणत्वं स्वर्गस्य च फलत्वं व्यवस्थापयति; सोऽयमाधिकारिक एवानयोः सम्बन्धो न श्रूयमाणविभक्तिकृत इति । नियोगगर्भत्वाच्च विनियोगस्येति । योऽयं विनियोगः शेषभावः श्रुत्यादिना प्रमाणेनावघातादीनां प्रतिपाद्यतेऽत्यन्तपारार्थ्यलक्षणस्तादर्थेनानुष्ठानपर्यन्तः स नियोगगर्भो नियोगापेक्षाकृतः, न पुनः श्रुत्यादीनामेव 10 तथाविधे तस्मिन् सामर्थ्यम् । 'सक्तून् जुहोति' इत्यादौ होमकृतस्य सक्तुसंस्कारस्य नियोगेनानपेक्षितत्वात् सत्यपि द्वितीया श्रुतिर्न होमस्य सक्त्वर्थतामनुष्ठानपर्यन्तां दर्शयति । 'गोदोहनेन पशुकामस्य प्रणयेत्' इति प्रणयनं प्रति श्रुतापि गोदोहनस्य करणता नियोगेन तथानपेक्षणात् फलं प्रति नीयते । 'कृष्णलमवहन्ति' इत्यत्र तु प्रत्युतावघातार्थता कृष्णलस्य नियोगवशादेव । नियोगेन च स्वसाधन- 15 संस्कारकत्वेनावघातस्यापेक्षणात् यवेष्वश्रुतोऽप्यवघातः क्रियते । अत एव द्वारतादर्थ्य श्रुत्यादीनां व्यापारमाहुः। नियोगेन स्वसिद्धयर्थमाक्षिप्तानामवघातादीनां श्रुत्यादयो द्वारमुपायं प्रदर्शयन्ति, अवघातेन चेन्नियोगस्योपकर्तव्यं तत्तदीयव्रीह्युपकारद्वारेणोपकुर्विति । नियोगव्यापारपरिगृहीते वस्तुनीति । नियोगस्य व्यापार उपादानात्मा, तत्प्रयुक्ताक्षेपापरपर्यायग्राहकव्यापारेण परिगृहीतं सर्वं नियोगार्थत्वेन व्यवस्थापितम्। 20 अयं भावः। अनुष्ठानसिद्धयर्थं वा प्रयाजादीनां प्रकरणादिभिः श्रुत्यन्तरकल्पनं तादर्थ्यसिद्धये वा ? न तावद् अनुष्ठानसिद्धयर्थं नियोगव्यापारपरिग्रहादेव तत्सिद्धेः। अथ तादर्थ्यसिद्धये, तदपि न, विनापि श्रुत्यन्तरकल्पनं श्रुत्यादिभिरर्थानामेव शेषशेषिभावप्रतिपादनस्य कर्तुं शक्यत्वादिति ।
गौणलाक्षणिकादिभिरिति । अभिधेयाविनाभूतः पदार्थो यदा कार्ययोगित्वेन 25 विवक्ष्यते तदा अभिधेयाविनाभावाल्लक्षणात आगतो लाक्षणिको, यथा 'गङ्गायां घोषः । प्रतिवसति' इति घोषप्रतिवसनलक्षणेन कार्येण तट एव लक्ष्यमाण; सम्बध्यते । 'सिंहो