________________
७२
न्यायमञ्जयां
|प्रथमम्
श्रुतिलिङ्गादिमानानां विरोधो यश्च वर्ण्यते ।
पूर्वपूर्वबलीयस्त्वं तत्कथं वा भविष्यति ॥ उच्यते सत्यपि सर्वत्र शब्दव्यापारे तत्प्रकारभेदोपपत्तेरेष न दोषः । न हि पदानां सर्वात्मना निमित्तभावमपहायव नैमित्तिकप्रतीतिरुपप्लवते। तदपरित्या5 गाच्च तत्स्वरूपवैचित्र्यमनुवर्तत एव ।
अन्यथा सिंहशब्देन मतिः केसरिणीसुते । अन्यथा देवदत्तादौ प्रतीतिरुपजन्यते ॥
माणवकः' इत्यादौ तु सिंहजात्याभिधेयया लक्ष्यमाणो यः शौर्यलक्षणो गुणः, स गुणोऽर्थो
वच्छेदकोऽन्यस्य, अत एत्र गुणादवच्छेदकादायातो गौण इत्युच्यते । अत्र हि तेन गुणेन 10 शौर्यलक्षणेन लक्ष्यमाणेन योऽवच्छिद्यते देवदत्तः स कार्ययोगी, न पुनगुणः, लक्षणायान्तु
लक्ष्यमाण एव कार्ययोगीति विशेषः । अत एव यस्यासावच्छेदकत्वेन गुणो विवक्ष्यते तस्य विशेष्यस्य देवदत्तादेरवश्यं प्रयोगो गौणे; न तु लक्षणायां तटेन लक्ष्यमाणेनान्यदवच्छिद्यते, अत एव तत्रावच्छेद्यस्याप्रयोगः । यथाह ''गौणे हि प्रयोगो न लक्षणायाम्" इति [?] प्रभाकरोपाध्यायः। गौणलाक्षणिकादिभिरित्यादिग्रहणं लक्षितलक्षणाद्यर्थम् । श्रुतिलिङ्गादिमानानामिति श्रुतिलिङ्गयोविरोधे यथा 'निवेशनः सङ्गमनो वसूनाम्' इति मन्त्रो लिङ्गादभिधानसामर्थ्यादिन्द्रप्रकाशनसमर्थ इति यावदिन्द्रोपस्थाने विनियुज्यते तावच्छू त्या 'ऐन्द्रया गार्हपत्य गुणतिष्ठते' इति गार्हपत्ये विनियोगाल्लिङ्गं बाध्यते, क्लृप्तस्य कल्प्यमानापेक्षया बलवत्त्वात् । उपतिष्ठत इति ‘उपान्मन्त्रकरणे' इति आत्मने
पदप्रयोगादभिधानं विवक्षितम्, तत्प्रत्येव मन्त्रस्य करणत्वात् । तेनोपतिष्ठेताभिदध्यात् 20 स्तुवीतेत्यर्थः । लिङ्गवाक्ययोविरोधे यथा ‘स्योनं ते सदनं कृणोमि, घृतस्य धारया सुशेवं
कल्पयामि, तस्मिन् सीद अमृते प्रतितिष्ठ, व्रीहीणां मेध सुमनस्यमानः' इति मन्त्रं प्रति संशयः। किं सकलोऽयं मन्त्रः पुरोडाशार्थे बहिष उपस्तरणे पुरोडाशासादने च प्रयोक्तव्यः ? उत कल्पयाम्यन्तः उपस्तरणे 'तस्मिन् सीद' इत्यादिः पुरोडाशासादन इति ? सर्वेषां
पदानामस्मिन् मन्त्रे साकाङ्क्षत्वादेकवाक्यत्वादुभयत्र प्रयोग इति वाक्यसामर्थ्यात् प्राप्तः, 25 लिङ्गस्याभिधानसामर्थ्यस्य बलीयस्त्वात् कल्पयाम्यन्तस्योपस्तरणे विनियोगोऽपरस्या
सादने । 'तस्मिन् सीद' इत्यादेरप्येकवाक्यत्वाद् यावदुपस्तरणप्रकाशनसामर्थ्य कल्प्यते तावत् क्लृप्तसामर्थ्येन कल्पयाम्यन्तेनोपरतरणस्य प्रकाशितत्वान्न कल्पनां लभते, एवं