________________
आह्निकम् ]
प्रमाणप्रकरणम् गङ्गायां मज्जतीत्यत्र गङ्गाशब्दो निमित्तताम् ।
उपयाति यथा नैवं घोषादिवसतौ तथा ॥ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामप्यर्थसन्निकर्षविप्रकर्षकृतोऽस्त्येव विशेष इति तत्रापि न विनियोगसाम्यम् ।
श्रुतिलिङ्गादिभिर्योऽपि कल्पयेविनियोजिकाम् । तस्यापि तस्यास्तुल्यत्वाद् बाध्यबाधकता कथम् ॥
'स्योनं ते सदनं कृणोमि' इत्यादेर'येकवाक्यताबलाद् यावत् पुरोडाशासाइनप्रकाशनसामर्थ्य कल्प्यते तावत् तस्मिन् सीद' इति क्लुप्तपुरोडाशासादनप्रकाशनसामोपहतत्वान्नैव कल्पनासम्भवः। एकवाक्यतया ह्यभिधानसामर्थ्य यावत् कल्प्यते तावत् क्लृप्तेन बाधितत्वाद् विप्रकर्षः। वाक्यप्रकरणयोविरोधे यथा-'अग्निरिदं हविरजुषता- 10 वीवृधत महो ज्यायोऽक्रात, अग्निषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्, इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽकाताम्' इत्यादि सूक्तवाकनिगदः । तत्र पौर्णमासीदेवता अमावास्यादेवताश्च समाम्नाताः परस्परेणैकवाक्ण्तां नाभ्युपयन्ति । तत्र लिङ्गसामर्थ्यात् पौर्णमासीप्रयोगादिन्द्राग्नीशब्दः उत्क्रष्टव्योऽमावास्यायां च प्रयोक्तव्यः पौर्णमास्यामिन्द्राग्न्योर्देवतयोरभावात् कं प्रकाशयत्वेष शब्दस्तत्र प्रयुज्यमान इति । इति- 15 कृत्वा तत उत्कृष्य तत्र तयोर्देवतयोरभावादसान्नाय्ययाजिनः सम्भवात् तत्रामावास्यायां प्रयोक्तव्यः। तस्य यः शेष: 'अवीवृधेतां महो ज्यायोऽक्राताम्' इति स किं यावत्कृत्वः समाम्नातस्तावत्कृत्व उभयोः पौर्णमास्यामावास्ययोः प्रयोक्तव्यः प्रकरणस्य बलवत्त्वात्, अथ येनेन्द्राग्नीशब्देन सहैकवाक्यतां प्राप्तो यत्रासौ तत्रैव प्रयोक्तव्यो वाक्यस्य बलीयस्त्वादिति ? तत्र प्रकरणवशाद् यावत् सर्वैः सहैकवाक्यता कल् यते तावदिन्द्राग्नी- 20 शब्देन क्लृप्तयैकवाक्यतया प्रकरणं बाध्यत इति विप्रकर्षः। क्रमप्रकरणयोविरोधे यथा, राजसूयप्रकरणेऽभिषेचनीयस्य क्रमे शौनःशेपाद्युपाख्यानमाम्नातम्. तत्कि प्रकरणवशात् सर्वार्थमाहोस्वित् क्रमाम्नानादभिषेचनीयार्थमिति ? तत्र क्रमाम्नातेन यावत् सन्निधानबलोद्भूताकाङ्क्षाकृतंकवाक्यताऽभिषेचनीयेन सहास्य कल्प्यतेऽभिषेचनीयस्य पृथक्प्रयोजकशक्तिबललब्धप्रकरणभावकल्पनया तावत् क्लृप्तयैवाधिकारविधेः प्रकरणशक्त्यैक- 25 वाक्यतेति विप्रकर्षः। क्रमसमाख्ययोविरोधे यथा पौरोडाशिकमिति समाम्नाते काण्डे सान्नाय्यक्रमे 'शुन्धध्वं दैव्याय कर्मणे' इति शुन्धनार्थो मन्त्रश्वाम्नातः । स किं समाख्या
१०