________________
७४
5
10
न्यायमञ्जय
अथ तत्कल्पने तेषां विदूरान्तिकवृत्तिता । स एवार्थगतो न्याय इति तत्कल्पनेन किम् ॥
[ प्रथम म्
ऐन्द्रग्न्यादिषु कृतेषु कर्मसु न प्राकृत विध्यन्तवचनानुमानम्, अपि तु चोदकव्यापारेण तस्यैव प्राप्तिः, वैकृतस्य विधेः काचिदाकाङ्क्षा चोदक इत्युच्यते ।
नन्वेवमुभयत्र तदवगमाविशेषादुपदेशातिदेशयोः को विशेष: ? न नियोगावगमे कश्चिद्विशेषः, किन्तुपदेशे, यथोपदेशं कार्यमतिदेशे तु यथाकार्यमुपदेश इत्येव तयोर्विशेषः ।
सामर्थ्यात् पुरोडाशपात्राणां शुन्धने विनियोक्तव्योऽथ सान्नाय्यपात्राणां सन्निधेरिति ? तत्र यावत् पौरोडाशिकमिति समाख्याबलात् पुरोडाशसन्निधिं धर्माणां कल्पयित्वा पुरोडाशार्थत्वं प्रतिपाद्यते तावत् क्लृप्तसान्नाय्यसन्निधानबलेनैव सान्नाय्यार्थत्वस्य प्राप्तत्वान्न समाख्या सन्निधिकल्पनाद्वारेण प्रोडाशार्थत्वकल्पनमिति विप्रकर्षः । सान्नाय्ये दधिपयसी ।
अथ तत्कल्पने तेषां विदूरान्तिकवृत्तितेति । लिङ्गं हि साक्षादेव श्रुति कल्पयति, वाक्यं पुनर्लङ्गमभिधानसामर्थ्यमकल्पयित्वा न श्रुतिकल्पनायां प्रभवतीति दूरान्तिक15 वृत्तिता; एतच्च प्राक् स्पष्टीकृतमेव ।
वैकृतस्य विधेः काचिदाकाङ्क्षति । 'प्राकृतविधिना दृष्टादृष्टसाधनोपकारवा सम्पन्नम्, अहमपि च विधिः, मयापि च तथाविधसाधनोपकारवता सम्पत्तव्यम्' इति याकाङ्क्षा सा चोदको धर्माक्षेपकः पदार्थः ।
यथोपदेशं कार्यमिति । अस्यार्थः किं धर्मा यथोपदेशं ये यत्सम्बन्धेन श्रुत्या20 दिभिः प्रमाणैरुपदिष्टास्ते तैः सम्बन्धमनुभूय पश्चात् कार्येण नियोगेन सम्बध्यन्ते आहोस्विद् यथाकार्यमुपदेशः प्रथमं कार्येण नियोगेन सम्बध्य पश्चाच्छ्र त्यादिकृतस्तेषां परस्परसम्बन्ध इति । अनेन च किं यजिप्रयुक्ता धर्मा उतापूर्वप्रयुक्ता इति भाष्यकृता यः संशयः सप्तमाद्ये कृतः स व्याख्यातः । तत्र यदि यथोपदेशं कार्यमिति पक्षस्तदा प्रथ तावद् यजना सर्वे धर्माः सम्बन्ध्यन्ते तत्सम्बन्धविधानार्थं च यजिरुद्देश्यो यजित्व25 मात्रेण, न तु विशिष्टनियोगसाधनत्वविशिष्टः, परार्थस्य सतः प्राधान्येनोद्देष्टुमशक्यत्वाद विशिष्टानुवादे वाक्यभेदप्रसङ्गाच्च । तस्माद् यथोद्देशस्य ग्रहादेरेकत्वस्या