________________
आह्निकम् ]
ननु यथाकार्यमुपदेशेऽनुपयुज्यमानकृष्णलचर्व वघातादेः प्राप्तिरेव न भवेदिति को बाधार्थ : ? न अखण्डमण्डलविघ्यन्तकाण्डप्राप्तेः, न ह्यंशांशिकया चोदकः प्रवर्त्तते, इत्यलमनया प्रसक्तानुप्रसक्त्यागतशास्त्रान्तरगर्भ कथाविस्तर
प्रस्तावनया ।
प्रमाण प्रकरणम्
इति प्रसङ्गाद् व्याख्यातं लेशतो वाक्यविन्मतम् । एतस्य युक्तायुक्तत्वपरिच्छेदे तु केवलम् ॥ श्रुतार्थापत्तिरस्माकं दूषणीयतया स्थिता । तदूषणश्च पूर्वोक्तवीथ्यानेन पथास्तु वा ॥
७५
5
विवक्षा प्राग्वद् विशेषश्चोद्देश्यत्वादेवोभयपदविशेष्यत्वाभावः । तथा च निर्विशेषणं यजिमात्रमुद्दिश्य प्रयाजादिधर्मविधानम् । तच्च यजिमात्रं प्राकृतवैकृतेषु सर्वयागेषु समान- 10 मिति सर्व (मातृकात्र खण्डिता )व्येत्यतिदेशक कल्पनया विकृतिषु धर्मप्राप्तिचिन्तनीया । अतश्च नारब्धव्य उत्तरः षट्कः । अथ नुन तदा प्रतिकरणमपूर्वशब्दाभिधेयानां कार्याणां नियोगानां भेदाद ये धर्मा येन कार्येण शब्दान्तरादिप्रमाण वशासादितभेदत्वेन भिन्नत्वात् । अतश्च दर्शपूर्णमासकार्यसम्बन्धित्वेन ते व्यः उत्तरः षट्कः अतिदेशतश्च प्राप्तौ । उक्तम् 'प्रकृतिवद् विकृतिः कर्तव्या' इति । तत्र यजौ श्रूयन्ते त्वाच्चापूर्वस्य तेनैव प्रथमं धर्माणां 15 सम्बन्धः स एवात्मानं साधिकारं साधयितुं करणमित्यादिकृतः पश्चात् परस्परसम्बन्ध इति किं यथोपदेशं कार्यमथ यथाकार्यमुपदेश इति शयः । यथाकार्वमुपदेशे हि व्यवस्था धर्माणां तत्र यत्र न विहितास्तत्र कार्योपकाराकाङ्क्षा इति चोदकस्तं पदार्थमसावाक्षेप्तुमर्हति येन कार्यस्योपकारः कश्चित् कर्तुं शक्यते न च ...लकृतेनावघातेन कश्चिदुपकारो जनयितुं शक्यते प्रकृताविव दृष्टस्य तुषकणविमो .....णाः कृष्णलास्तेषामव- 20 घातेन किमिव क्रियेत ? अतः प्राप्त्यभावादेव कृष्णलेष्वर्थलोपादक ( रणम् ?) भावे aagi बाधना ।
अखण्डमण्डलविध्यन्तकाण्डप्राप्तेर्न ह्यंशांशिकया चोदकः प्रवर्तत इति । 'न''''[अ]खण्डमण्डलविध्यन्तकाण्डप्राप्तेरिति तत्र ग्रन्थकृता तावदनेनैवाभिप्रायेणातिप्रसङ्गमाशङ्क्य अलमनयेत्यादिनोपसंहृतम् । इदं त्वत्रोत्तरम्, प्रकृतौ विधिर्दृष्टादृष्टोप - 25 कारवत्साधनसिद्ध्या सम्पन्नस्तत्रायमपि वैकृतो विधिरुपकारमेवापेक्षते न तु तज्जनकान्