________________
७६
न्यायमञ्जयां
[प्रथमम्
ध्वनिकारसम्मतध्वनितस्यार्थत्वनिरासः
एतेन शब्दसामर्थ्यमहिम्ना सोऽपि वारितः ।। यमन्यः पण्डितम्मन्यः प्रपेदे कञ्चन ध्वनिम् ॥ विधेनिषेधावगतिविधिबुद्धिनिषेधतः ।
यथा
भम धम्मिअ वीसत्थो पान्थ मा मे गृहं विश ॥
पदार्थान्, प्राकृतस्य विधैरुपकारापेक्षित्वदर्शनात् । स च प्राकृत उपकारोऽपेक्षासमये विभागेनापेक्षितुं न शक्यते । उपकारजनका हि विभक्ताः, न तु तैर्जन्यते यो महोपकारः।
अतस्तेन महोपकारेणाविभक्तेन कथं विभागेन पदार्था आक्षेप्तुं पार्यन्ते ? यथा वन10 शब्दादविभागेन वृक्षाणां प्रतीतौ न धवार्थिना तत्प्रतीतिसमये धवत्यागः शक्यक्रियः,
एवमविभक्तोपकारापेक्षातो धर्माणामाक्षेपे नानुपयुक्तानां परित्यागः शक्यक्रिय इति । इममेव चार्थं हृदि विनिवेश्याह न ांशांशिकया चोदकः प्रवर्तत इति ।
एतेन पण्डितम्मन्य इति आनन्दवर्धनाचार्य ध्वनिकारं परामृशति।स हि यस्मिन् काव्यप्रभेदे वाच्यवाचकौ प्रकरणादिसहायौ वाच्यदशोत्तीर्णस्य प्रतीयमानस्य प्राधान्येन 15 स्थितस्य व्यञ्जकतां प्रतिपद्यते तं काव्यप्रभेदं ध्वनिमाह। यथा च व्याकरणमूलत्वात्
सर्वविद्यानां प्रथमै विद्वद्भिर्वैयाकरणैः श्रूयमाणेषु वर्णेष स्फोटाभिव्यञ्जकत्वात् ध्वनिशब्दः प्रयुक्तस्तयामुनापि तादृशे प्रभेदे व्यञ्जकत्वसामान्याद् ध्वनिशब्द एव प्रयुक्तः । आह च।
“यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वाथौं ।
व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः" ।। इति ।। अस्योदाहरणं-- भम धम्मिअ इत्यादि ।
भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ तेण । गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥ भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोलानदीकच्छलताकुञ्जवासिना दृप्तसिंहेन ।