SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् आह्निकम् ] कच्छः कूलभागः। कुडङ्गं लतागहनम् । अत्र च यद्यपि कदाचिदविनयवत्या चौर्यसुरतक्रीडासु प्रच्छायतया सर्वस्वभूतानि गोदावरीकूलवर्तीनि लतागेहानि प्रत्यहं पुष्पावचयार्थमागतेन धामकेण चोर्यमाणसौभाग्यानि रक्षन्त्या वैदग्ध्याद् भयोपन्यासपूर्वं तत्र तस्य भ्रमणपरिहारायैवमुक्तम्, तथाप्यञ्जसा प्रवजितस्य शुनो भयमाशङ्कमानस्य सिंहेन तस्य व्यापादनमुपन्यस्य भयनिवृत्ति कृत्वा भ्रमणं विधीयत इति विधेर्वाच्यता। अथ च विधिरूपवाच्यार्थोत्थापनाङ्गभूतेन दृप्तसिंहकर्तृकश्वव्यापादनल पणेन वाच्येनार्थात्मना वाक्येनैवमर्थाभिधानव्यवधानेन व्यञ्जकेनामुना सम्भूय द्वाभ्यां प्रकरणाभिधातृप्रतिपत्तिविशेषपर्यालोचनसहायाभ्यां 'तत्र मा भ्रमीः' इति निषेधावगतिः क्रियते, विधिनिषेधयोश्च युगपद् वाच्यदशोपारोहासम्भवादेकस्य वाच्यत्वमपरस्य प्रतीयमानत्वम् । अत्र च यद्यपि स्वत एव भ्रमणप्रवृत्तेरप्रवृत्तप्रवर्तनात्मकविध्यर्थाभावान्न मुख्यं 10 विधित्वं तथापि स्वरससिद्धाया अपि भ्रमेः श्वभयान्निवृत्तायास्तन्निवारणेन यः प्रतिप्रसवः स एव विधिशब्देन निदिष्टः । 'तरुण्येकाहमेवास्मि सार्धं दृक् छु तिहीनया। श्वश्वा चिरगतो भर्ता' इत्येवंप्राय- . श्लोकैकदेशोऽयं 'पान्थ ! मा मे गृहं विश' इति । एतद् एतेनेत्यादिना निराकुरुते। अयमाशयः। वेदे शब्दनिबन्धनत्वादर्थव्यवस्थायास्तत्र यथाशब्दमर्थव्यवस्थाऽस्तु, लोके 15 पुनर्जातमर्थं परं प्रतिपादयितुं शब्दान् प्रयुञ्जते ज्ञानञ्च प्रमाणान्तरात् । तत् शब्दप्रतिपादितं वस्तु यदि प्रमाणान्तरेण न विरुध्यते तद्यथावगतमेव ग्राह्यम्, विरोधे तु न, यथा अविरोधो भवति तथा तस्यार्थो व्यवस्थाप्यः । तथाहि यथा “गङ्गायां घोषः" इति लक्षणायां स्रोतोरूपस्यार्थस्याधारत्वानुपलम्भात् प्रमाणान्तरानुगुण्येन तटप्रतिपादन एव पर्यवस्यति शब्दव्यापारः, यथा च गौणे 'सिंहो माणवकः' इत्यादौ द्वयोरपरजात्योविरुद्ध- 20 योरेकत्र समावेशासम्भवाद् गुणविशेष एव शौर्यलक्षणे प्रतिपादनशक्तिः सिंहशब्दस्य, एवमत्र यद्यपि विधावभिधानशक्तिः पर्यवसिता तथापि तात्पर्यशक्तेरपर्यवसानाद् विधौ च पदार्थानन्वयाद् मा भमीरिति निषेध एव झगिति वाक्यार्थतयावभासते। ततोत्र यद्यपि श्वव्यापादनोपन्यासेन भयनिवृत्ति कृत्वा भ्रमणमेव विधीयते तथापि दृप्तपदविशेषितसिंहपदार्थपर्यालोचनायां सदर्पपञ्चाननबाधिताध्वप्रतिपादनेन सुतरां भयहेतूपन्यासाद् विरुद्ध- 25 कारणोपलम्भाद् भ्रमणविधिर्न वाक्यार्थतामुपगन्तुमलम्, प्रत्युत तन्निषेधस्यैवो तनिमित्तत्वमिति तस्यैव वाक्यार्थतोपारोहः। यद्यपि साक्षाल्लोटा प्रतिपाद्यमानो विधिः श्रूयते
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy