________________
७८
10
15
न्यायमञ्जय
5 तथाप्यनन्वयवलाद् भ्रमेत्यनेन विपरीतलक्षणया भ्रमणनिषेध एव प्रतिपाद्यते । दृश्यते च विपरीतलक्षणयापि व्यवहारः । तथाहि चन्द्रदर्शस्वभावाममावास्यां दर्शशब्देन विपरीतलक्षणया प्रतिपादयन्ति । अपि च, अस्ति तावदेवंप्रायाद् वाक्यादित्थम्भूतनैमित्तिकाव : गतिः, अस्याश्चावगतौ यथा निमित्तानां निमित्तत्वमवकल्प्यते तथा कल्प्यमिति । एतदेव चेतसि निधाय 'एतेन पण्डितम्मन्यः' इत्यत्र 'एतेन' इति सर्वनाम प्रयुक्तम् । युक्तच प्रतीयमानार्थप्रतिपत्तेः शाब्दत्वमेव, अन्यथेदृशमर्थमवगम्य प्रतिपत्तुः 'उत्प्रेक्षितो मयायमर्थो न तु शब्दात् प्रतिपन्नः' इति प्रतीतिः स्यात्, अस्ति च शाब्दत्वेन प्रतीतिः, अतः शाब्द एवायम् । यस्य तु यथाश्रुतग्राहिणो विधिमात्रप्रतीत्यैव संतोषः सोऽनवधारितवाक्यार्थं एव । यदाहुः ‘गन्तव्यं दृश्यतां सूर्यः' इत्युक्ते बहिर्निःसृत्य प्रविश्य यो ब्रूयाद् 'दृष्टः सूर्यो निर्मलः प्रकीर्णरश्मिः' इति, न तेन यथोक्तं कृतमित्युच्यते, कालविशेषोपलिप्सानिबन्धनत्वाद् वाक्यस्येति । तथा
काकेभ्यो रक्ष्यतां सपिरिति बालोऽस्य चोदितः । उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥
20
मानान्तरपरिच्छेद्यवस्तु रूपोपदेशिनाम् । शब्दानामेव सामर्थ्यं तत्र तत्र तथा तथा ॥ अथ वा नेदृशी चर्चा कविभिः सह शोभते । विद्वांसोऽपि विमुह्यन्ति वाक्यार्थ गहनेऽध्वनि ॥
[ प्रथमम्
एवञ्चैवमादौ सर्वत्र नैमित्तिकावगतिपूर्वकत्वेन निमित्तानां निमित्तत्वव्यवस्थापनान्न निमित्तस्वरूपमात्राश्रयणेन व्यवहारः प्रवर्तनीयः । आह च
स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः । पदानां प्रविभागेन यादृशः परिकल्प्यते ॥
तदित्थंस्थिते न्यायस्य समानत्वाद् यथा 'रसायनोपयोगादमृतो जायते' 'दध्युपयोगात् पृथिव्यां निमज्जति' इत्यत्र 'दीप्ताग्निर्मन्दाग्निश्च भवति' इत्ययमर्थस्तात्पर्य - शक्तया वाक्यार्थस्तथा सर्वत्र व्यङ्गयाभिमतोऽर्थात्मा वाक्यतात्पर्यशक्तिक्रोडीकृतत्वाद् 25 वाक्यार्थ एव । ' पान्थ मा मे गृहं विश' इत्यत्र निषेधं प्रति कारणोपन्यासो यः कृतः स विरुद्धत्वात् विधिमेव पर्यवस्थापयतीति विधिरेव वाक्यार्थ इत्यलमतिप्रसङ्गेन । तत्र तत्र लक्षणादौ । तथा तथा तेनैव प्रकारेण लक्षगाद्यात्मकव्यापारसमाश्रयेण ।