________________
आह्निकम् ]
प्रमाणप्रकरणम्
तदलमनया गोष्ठया विद्वज्जनोचितया चिरम् । परमगहनस्तर्कज्ञानामभूमिरयं नयः । प्रकृतमधुना तस्माद् ब्रूमो न भात्यनुमानतस्तनुरपि सतामर्थापत्तेविशेष इति स्थितम् ॥
अभावस्य प्रमाणान्तरत्वम् आह अभावस्तहि प्रमाणान्तरमस्तु ।
सत्परिच्छेदकं यत्र न प्रमाणं प्रवर्तते।
तदभावमितौ मानं प्रमाणाभाव उच्यते । 'इह घटो नास्तीति घटं प्रति सदुपलम्भकप्रमाणप्रवृत्तिर्नास्तीति, असौ प्रमाणाभावो घटाभावं परिच्छिनत्ति । तत्र च घटविषयज्ञातृव्यापारानुत्पाद एव 10 दृश्यादर्शनशब्दवाच्यः प्रमाणम्, नास्तीति बुद्धिः फलम् ।
अथ वा घटाभावग्राही ग्रहीतृव्यापारः सदुपलम्भकप्रमाणाभावजनितो नास्तीति प्रत्ययस्वभावः प्रमाणम्, फलन्तु हानादिज्ञानं भविष्यति तदुक्तम् ।
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते।
सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥ इति। अन्यवस्तुशब्देन घटाभाव उक्तः । तत्र तावदिदं नास्तीति ज्ञानं न प्रत्यक्षजनितमिन्द्रियार्थसन्निकर्षाभावात् । सन्निकर्षों हि संयोगसमवायस्वभावः तत्प्रभावभेदो वा । संयुक्तसमवायादिरिह नास्त्येव । संयुक्तविशेषणभावोऽपि न सम्भवति कुम्भाभावस्य भूप्रदेशविशेषणत्वाभावात् । न ह्यसंयुक्तमसमवेतं वा किञ्चिद्विशेषणं भवति, संयुक्तस्य दण्डादेः समवेतस्य शुक्लगुणादेस्तथाभावदर्शनाद् । 20 अभावश्च न केनचित्संयुज्यते अद्रव्यभावात्, न क्वचित्ससमवैति गुणादिवैलक्षण्यादिति । यदि च संयुक्तविशेषणभावसन्निकर्षोपकृतं चक्षुरभावं गृह्णाति
दृश्यादर्शनशब्दवाच्य इति । दृश्यस्य दर्शनयोग्यस्य यददर्शनं तच्छब्दाभिलप्यः
सात्मनोऽपरिणामो वेति। घटज्ञातृतालक्षणावस्थानाविर्भावोऽत्रापरिणामो विवक्षितः।
25