________________
न्यायमञ्जऱ्यां
[प्रथमम् तहि तदविशेषात्संयुक्तद्रव्यवर्तीन् रसादीनपि गृह्णीयात्, तदभावमपि मा ग्रहीदयोग्यत्वाविशेषात् । योग्यायोग्यत्वकृत ग्रहणाग्रहणनियमवादे वा योग्यतैव सन्निकर्षो भवति, किं षट्कघोषणेन ? तस्मान्न घटाभावज्ञानं चाक्षुषम् ।
ननु भूप्रदेशाञ्च घटाभावञ्च विस्फारिते चक्षुषि निरीक्षामहे । निमीलिते तु 5 तस्मिस्तयोरन्यतरमपि न पश्यामः। तत्र समाने च तद्भावभावित्वे भूप्रदेशज्ञानं
चाक्षुषम्, अभावज्ञानन्तु न चाक्षुषमिति कुतो विशेषमवगच्छामः ? बाढम्, अवगच्छामः, सन्निकर्षाभावादेव। न ह्यसनिकृष्टं चक्षुरवगतिजन्मने प्रभवति । तद्भावभावितं त्विदमन्यथासिद्धम्, विदूरदेशे व्यवस्थितस्थूलज्वालावलीजटिलज्वलनगत
भास्वररूपोपलम्भानुत्तितद्गतोष्णस्पर्शज्ञानवत् । तत्र यथा रूपानुमीयमानस्पर्श10 वेदने नयनान्वयव्यतिरेकान्वयविधानमन्यथासिद्धम्, एवमिहापि भूप्रदेशोपलम्भा
विनाभाविनि कुम्भाभावग्रहणे तत्कृतमिन्द्रियान्वयव्यतिरेकान्वयविधानमिति न चाक्षुषो घटाभावप्रतिभासः। तदुक्तम्
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ इति । ___ अतश्चैवमसन्निहितस्यापि क्वचिद् ग्रहणदर्शनात, स्वरूपमात्रकेण गौरमूलकमुपलब्धवतस्ततो देशान्तरं गतस्य तत्र केनचिद् गर्गोऽस्ति वा नास्ति वेति पृष्टस्य सतः स्वरूपमात्रं गृहीतं गौरमूलकमनुस्मरतः तदानीमसनिकृष्टेऽपि गर्गस्याभावे तदैव तस्य ज्ञानमुदेति, तत्रेन्द्रियकथापि नास्ति इति न तस्य प्रत्यक्ष
त्वम्, चानुमानगम्योऽयमभावः । भूप्रदेशस्य तद्गतघटादर्शनस्य वा लिङ्गत्वानुप20 पत्ते न भूप्रदेशो लिङ्गम्, अगृहीतसम्बन्धस्यापि तत्प्रतीतेः, अनैकान्तिकत्वाद
अपक्षधर्मत्वात्, तदधिकरणभावानन्त्येन सम्बन्धग्रहणासम्भवाच्च । नापि घटादर्शनं लिङ्गम्, अपक्षधर्मत्वाद, घटादर्शनं घटस्य धर्मो न तदभावस्य । घटाभाव
गृहीत्वा वस्तुसद्भावम् । वस्तुनः शुद्धस्य भूतलस्य सत्ताम् । स्मृत्वा च प्रति. योगिनं घटम् । निमीलिताक्षस्यापि भावात् सतोऽप्यक्षस्यानपेक्षगम् ।
गौरमूलकमुपलब्धवत इति । गौरमूलकाख्यो ग्रन्थकृदभिजनग्रामः । अनैकान्तिकत्वात् सत्यपि घटे भूतलस्योपलम्त्भा ।
25