________________
आह्निकम् ] प्रमाणप्रकरणम्
८१ प्रतीति प्रति व्याप्रियमाणत्वात्तद्धर्मत्वमस्येति चेत् न, इतरेतराश्रयप्रसङ्गात् । तद्धर्मत्वे सति लिङ्गप्रतीतिजनकत्वम्, प्रतीतिजन्मनि सति तद्धर्मताज्ञानमदर्शनस्य दुर्घटमेव । सिद्धायान्तु किं पक्षधर्मताज्ञानेन, साध्यप्रतीतेः सिद्धत्वात् ।
अपि चेदमदर्शनाख्यं लिङ्गमविदितव्याप्ति कथमभावस्यानुमापकं भवेत् ? व्याप्तिग्रहणञ्च धूमाग्निवदुभयर्मिग्रहणपूर्वकम् । तत्र व्याप्तिग्रहणवेलायामेव तावत् कुतस्त्यमभावाख्यभिग्रहणमिति चिन्त्यम् । तत एवानुमानादिति यद्युच्यते तदितरेतराश्रयम् । अनुमानान्तरनिबन्धने तु तद्ग्रहणेऽनवस्था अदर्शनाख्यलिङ्गमपि दर्शनाभावस्वभावमिति तत्स्वरूपपरिच्छेदचिन्तायामपि अयमेव पन्थाः । अतो दूरमपि गत्वा तदवगमसिद्धये प्रमाणान्तरमभावपरिच्छेदनिपुणमवगन्तव्यमिति, तत एव तदवगमसिद्धेर्न तस्यानुमेयत्वम् । न चेदमिह घटो नास्तीति ज्ञानं 10 शब्दोपमानार्थापत्त्यन्यतमनिमित्तमाशङ्कितुमपि युक्तमिति, सदुपलम्भकप्रमाणातीतत्वादभावस्यैव भूमिरभाव इति युक्तम्, अपि च प्रमेयमनुरूपेण प्रमाणेन प्रमातुमुचितम् ।
भावात्मके प्रमेये हि नाभावस्य प्रमाणता। अभावेऽपि प्रमेये स्यान्न भावस्य प्रमाणता ॥ न प्रमेयमभावाख्यं निह्नतं बोधयत्त्वया।
प्रमाणमपि तेनेदमभावात्मकमिष्यताम् ॥ अभावस्य प्रमाणान्तरतानिरासः
अत्राभिधीयते, सत्यम अभावः प्रमेयमभ्युपगम्यते, प्रत्यक्षाद्यवसीयमानस्वरूपत्वान् न प्रमाणान्तरमात्मपरिच्छित्तये मृगयते।
अदूरमेदिनीदेशत्तिनस्तस्य चक्षुषः । परिच्छेदः परोक्षस्य क्वचिन्मानान्तरैरपि।
अनुमानान्तरनिबन्धने तु तद्ग्रहणेऽनवस्थेति । येनापि हि लिङ्गेन घटाभावं गृहीत्वा तस्य घटाभावस्य घटादर्शनेन सह सम्बन्धो गृह्यते, तेनापि घटाभावेन सह गृहीतसम्बन्धेनैव सता घटाभावः प्रतिपाद्यः, अतस्तस्याप्यनुमानान्तरगृहीतेनाभावेन सह 15 सम्बन्धो ग्राह्यः, तस्याप्यनुमानान्तरगृहीतेनेत्यनवस्था।
११