________________
[ प्रथमम्
तथा ' चेह घटो नास्तीति ज्ञानमेकमेवेदम्, 'इह कुण्डे दधी 'ति ज्ञानवद् उभयालम्बनमनुपरतनयनव्यापारस्य भवति । तत्र भूप्रदेशमात्र एव नयनजं ज्ञानमितरत्र प्रमाणान्तरजनितमिति कुतस्त्योऽयं विभागः ? अत्राग्निरिति युक्तोऽयमनक्षजः प्रतिभासः, धूमग्रहणानन्तरमविनाभावस्मरणादिबुद्धयन्तरव्यवधानसम्भ5 वात् । इह तु तथा नास्त्येव, अव्यवहितैव हि भूप्रदेशवद् घटनास्तितावगतिरविच्छेदेनानुभूयते । न च क्षितिधराधिकरणपरोक्षाशुशुक्षणिवदनीक्षणविषयता भवति, भावस्य तद्व्यापारान्वयव्यतिरेकानुविधानात्तत्प्रतीतेः । तत्र हि व्यापृताक्षोऽपि न पर्वतवत्तिनमनलमवलोकयितुमुत्सहते । इह तु घटाभावमपरिम्लाननयनव्यापार एव पश्यतीति चाक्षुषमभावज्ञानम्, तद्भावभावित्वविधानात् । न च दूरव्यवस्थितहुत वह10 रूपदर्शनपूर्वकस्पर्शानुमानवदिदमन्यथासिद्धं तद्भावभावित्वम् । तत्र हि बहुशः स्पर्श दर्शन कौशल शून्यत्वमवधारितं चक्षुषः, स्पर्शपरिच्छेदि च करणान्तरं त्वगिन्द्रियमवगतम् | अविनाभाविता च पुरा तथाविधयो रूपस्पर्शयोरुपलब्धत्यनुमेय एवासौ स्पर्श इति युक्तं तत्रान्यथासिद्धत्वं चक्षुर्व्यापारस्य । प्रकृते तु नेदृशः प्रकारः समस्ति । न चैकत्र तद्भावभावित्वमन्यथासिद्धमिति सर्वत्र तथा कल्प्यते । एवं हि 15 रूपमपि चाक्षुषतामवजह्यात् ।
८२.
न्यायमञ्जर्य्यां
ननु नीरूपस्यासम्बद्धस्य च चाक्षुषत्वमभावस्य कथमभिधीयते ? चक्षुर्जनितज्ञानविषयत्वाच्चाक्षुषत्वम्, न रूपवत्त्वेन, रूपवतामपि परमाणूनामचाक्षुषत्वात् । सम्बद्धमपि न सर्वं चाक्षुषमाकाशस्य तथात्वेऽपि तदभावात् ।
नन्वसम्बद्धस्य चक्षुषा ग्रहणे दूरव्यवहितस्य विभीषणादेरपि चाक्षुषत्व20 प्रसङ्गः ? उच्यते, भावे खल्वयं नियमो यदसम्बद्धस्य चक्षुषा अग्रहणम् । अभावस्त्वसम्बद्धोऽपि चक्षुषा ग्रहीष्यते । षट् प्रकारसन्निकर्षवर्णनमपि भावाभिप्रायमेव । सम्बद्धं हि यद् गृह्यते तत् षण्णां सन्निकर्षाणामन्यतमेन सन्निकर्षेणेति । प्राप्यकारित्वमपि इन्द्रियाणां वस्त्वभिप्रायमेवोच्यते । तस्मादवस्तुत्वादभावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न दोषः । न चासम्बद्धत्वाविशेषाद् 25 देशान्तरादिषु सर्वाभावग्रहणमाशङ्कनीयम्, आश्रयग्रहणसापेक्षत्वादभावप्रतीतेः ।
सम्बद्धमपि न सर्वं चाक्षुषमिति । चक्षूरश्मीनां मूर्तत्वादवश्यंभाव्याकाशेन संयोगः, सर्वमूर्तद्रव्यसंयोगित्वात् तस्य ।