________________
प्रमाणप्रकरणम्
आह्निकम् ] आश्रयस्य च सन्निहितस्यैव प्रत्यक्षत्वात् । अथवा संयुक्तविशेषणभावाख्यसन्निकर्षोपकृतं चक्षुरभावं ग्रहीष्यति, यथा समवायप्रत्यक्षत्ववादिनां पक्षे समवायमिति ।
नन तदिदमसिद्धम सिद्धस्य दृष्टान्तीक्रियते। मैवम्, भवतापि द्रव्यगुणयोवृत्तेरपरिहार्यत्वात् । भेदबुद्ध्या सिद्धभेदयोरसम्बद्धयोश्च द्रव्यगुणयोरदर्शनादवश्यं काचिद् वृत्तिरेषितव्येत्यलमर्थान्तरचिन्तनेन ।
यत्तूक्तं संयोगसमवाययोरभावादभावो न भूप्रदेशस्य विशेषणमिति, तदप्यसाधु । संयोगसमवायाभ्यामन्यस्यैव विशेषणविशेष्यभावनाम्नः सम्बन्धस्यादूर एव प्रतीतिबलेन दर्शयिष्यमाणत्वात् ।
यस्तु संयुक्तविशेषणभावे सन्निकर्षे रसादिभिरतिप्रसङ्ग उद्भावितः सोऽयं संयुक्तसमवायाख्ये चक्षुरूपसन्निकर्षेऽपि समानो दोषः । संयुक्तसमवायोऽपि तहि मा 10
भूत सन्निकर्षः ? किं नश्छिन्नम्। तत्किमसम्बद्धमेव रूपं गृह्णातु चक्षुः ? न हि संयुक्त. समवायादन्यश्चक्षुरूपयोः सम्बन्धः ।
नन्वर्थग्रहणात्मको व्यापार एव चक्षुषः सन्निकर्षो योग्यता वा, तद्वशादेव रूपस्य तद्ग्राहकत्वमुपेयते न संयुक्तसमवायादिनेति । स तहि व्यापारः, सा वा योग्यता, कथमभावमपि प्रति तस्य न स्यात् ? प्राप्यकारीणि चेन्द्रियाणि कारक- 15 त्वादिष्यन्ते सन्निकर्षश्च निह णुयते इति विप्रतिषिद्धम् । तस्मात षट्प्रकारा सन्निकर्षानुगामिनी योग्यता वक्तव्या, न योग्यतामात्र एव विश्रम्य स्थातव्यम् । यत्र योग्यता तत्र सन्निकर्षोऽप्यस्ति, न तु यत्र सन्निकर्षस्तत्रावश्यं योग्यतेति । एवमभ्युप
20
तदिदमसिद्धमिति । मीमांसकानां हि समवायोऽसिद्धः, स कथं तेषां दृष्टान्तीभवेत् । तथाहि त आहुः
न चाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना। नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता ।। इत्यादि ।
चक्षुरूपसन्निकर्षेऽपि समानो दोषः। रसेनापि सह चक्षुषः संयुक्तसमवायसम्भवात् ।
योग्यता वेति । नियतार्थविज्ञानहेतुरतीन्द्रियो नियतविज्ञानात्मककार्यानुमेयो योग्यतात्मकः सम्बन्धः ।
।