________________
न्यायमञ्जयां
[प्रथमम्
गच्छतां न रसायतिप्रसङ्गचोदना धुनोति । मनोरसादेः सत्यपि सन्निकर्षे योग्यत्वाभावादग्रहणम् ।
योग्यतामात्रवादेऽपि नाभावस्यास्त्ययोग्यता। भवद्भिर्वस्तुधर्मोऽस्य को वा नाभ्युपगम्यते ॥ सर्वोपाख्यावियुक्तत्वान्नास्त्येवेत्येष वोच्यताम् । अभावश्चाक्षुषज्ञानविषयो वाऽभ्युपेयताम् ॥ यदपि स्वरूपमात्रं दृष्टञ्च पश्चात् किञ्चित्स्मरन्नपि ।
तत्रान्यनास्तितां पृष्टस्तदेव प्रतिपद्यते ॥
इत्युक्तं तदपि न युक्तम् । वस्त्वन्तरविविक्तगौरमूलकस्वरूपग्रहणसमय एव 10 तत्रासन्निहितसकलपदार्थाभावग्रहणस्य मेचकबुद्धया सिद्धत्वाद् इदानीं तद्गत
गर्गाभावस्मरणं न तस्य परोक्षस्यानुभवः। तथा हि तदानी गर्गस्तत्र नासीदित्येवमसौ स्मृत्वा सत्यवादी स्मरति, इदानीं त्वस्तित्वनास्तित्वे प्रति संशेते एवासौ, गर्गस्य कुतश्चिदागतस्येदानीं तत्रास्तित्वसम्भवात् ।
ननु न पूर्व सर्वाभावग्रहणमनुभूतवानसौ गौरमूलके, अननुभूयमानमपि तदस्य बलात्कल्प्यते, अभ्यस्तविषयेऽविनाभावस्मरणवत्। तथा हि तेन तेनानुयुक्तस्तस्य तस्याभावं स्मृत्वोत्तरमसौ सर्वेभ्य आचष्टे ।
ननु मेचकबुद्धया सकलाभावग्रहणे सहसैव सकलाभावस्मृतिरुपजायेत ? मैवम्, यत्रैव प्रश्नादिस्मरणकारणमस्य भवति तदेव स्मरति न सर्वमविद्यमानस्मरणनिमित्तम् । अन्यत्र तु युगपदुपलब्धष्वपि वर्णेषु युगपदन्त्यवर्णानुभवसमनन्तरं स्मरणम्, अन्यत्र तु युगपदुपलब्धेष्वपि क्रमेण स्मरणं भविष्यतीति न मेचकबुद्धावयं दोषः। किञ्च स्वरूपमात्रं दृष्टमिति वदता भवतापि मेचकज्ञानमभ्युपगतमेव, मात्रग्रहणेन तदन्याभावग्रहणसिद्धेः । एवं हि भवानेवाभ्यधात्
नास्त्येवेत्येष वोच्यताम् । नास्त्येवैष इति वोच्यतामिति सम्बन्धः ।
मेचकबुद्धयेति । मयूरग्रीवाया वर्णे यथा व्यक्तितिरस्कृतानेकवर्णसम्भवे मेचक25 व्यवहार एवं व्यक्तितिरस्कृताखिलाभावग्राहिण्यामपि बुद्धौ मेचकतामात्रग्रहणेन तदन्या
भावग्रहणसिद्धिरिति । यदि ह्यन्येऽपि पदार्था दृष्टाः स्युस्तदा कथं स्वरूपमात्रेण दृष्टः स्यात् । न ह्यन्यैः सह दृष्टः स्वरूपमात्रेण दृष्टो भवति ।