________________
आह्निकम् ]
प्रमाणप्रकरणम् अयमेवेति यो ह्येष भावे भवति निर्णयः ।
नैष वस्त्वन्तराभावसंवित्त्यनुगमाद् विना॥ इति । तस्माद् गौरमूलकावेशसमय एव तत्रासन्निहितस्य गर्गादेरभावग्रहणान्नेदानी परोक्षाभावग्रहणमभावकारणमभ्युपगन्तव्यमिति, प्रत्यक्षगम्य एवा
यमभावः।
यत्पुनरननुमेयत्वम् 'इह घटो नास्तीति प्रकृताभावविषयमभ्यधायि तदस्माकमभिमतम् । कश्चित्पुनरसन्निकृष्टदेशवृत्तिरनुमेयोऽपि भवत्यभावः । यथा सन्तमसे सलिलधाराविसरसिक्तसस्यमूलमभिवर्षति देवे घनपवनसंयोगाभावोऽनुमीयते । यथा वार्थापत्तावुदाहृतं गृहभावेन चैत्रस्य बहिरभावकल्पनमिति ।
आगमादप्यभावस्य क्वचिद्भवति निश्चयः ।
चौरादिनास्तिताज्ञानमध्वगानामिवाप्ततः ॥ यत्पुनरुक्तमनुरूपेण प्रमाणेन प्रमेयं प्रमीयते प्रमेयत्वाद्भावात्मकप्रमेयवदिति, एतदप्यप्रयोजकं साधनम् ।।
अभावः पटलादीनां प्रत्यक्ष प्रतिपद्यते। विपक्षे वृत्त्यभावश्च लिङ्गस्य सहकारिताम् ॥ पुरुषोक्तिषु दोषाणामभावश्चोपयुज्यते। सामग्रयन्तर्गतात्तस्मादभावादपि भावधीः ॥ अभावश्च क्वचिल्लिङ्गमिष्यते भावसंविदः । वृष्टयभावोऽपि वाय्वभ्रसंयोगस्यानुमापकः ॥ तस्माद्युक्तमभावस्य नाभावेनैव वेदनम् ।
न नाम यादृशो यक्षो बलिरप्यस्य तादृशः ॥ बौद्धमतेऽभावस्यावस्तुत्वम् ततश्चाप्रमाणत्वम्
अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् । युक्तं नाम प्रमाणस्य तदेव त्वतिदुर्लभम् ॥
नैष वस्त्वन्तराभावसंवित्त्यनुगमाद् विनेति । यावद् वस्त्वन्तराभावसंवित्ति- 25 मसौ नानुगच्छति नापेक्षते तावदसौ न भवतीत्यर्थः ।