________________
न्यायमञ्जय
[ प्रथमम्
अभावो नाम प्रतीयमानो न स्वतन्त्रतया घटाभावस्वरूपवदनुभूयतेऽपि तु देशकाल प्रतियोगिविशिष्टत्वेन । तथा ह्येवं प्रतीतिरिदमिदानीमिह नास्तीति स चेत्थमवगम्यमानोऽपि यदि तैः सम्बद्ध एव भवेदभावः क एनं द्विष्यात् ? न त्वसौ तत्सम्बद्धः । न हि देशेन कालेन प्रतियोगिना सहास्य कश्चित्सम्बन्धः, संयोगसम5 वायादेरनुपपत्तेः । न च सम्बन्धरहितमेव विशेषणं भवति ।
प्रसङ्गात् विशेषणविशेष्यभावसम्बन्धस्वरूपविचारः
८६
ननु विशेषणविशेष्यभाव एव सम्बन्धः, किं सम्बन्धान्तरापेक्षया ? मैवम् सम्बन्धान्तरमूलत्वेन तदवगमात् । संयुक्तं, समवेतं वा विशेषणं भवति दण्डी देवदत्तो नीलमुत्पलमिति । अतश्च न वास्तवः स्वतन्त्र एव विशेषणविशेष्यभावः सम्बन्धः 10 पुरुषेच्छ्या विपर्यस्यन्तमप्येनं पश्यामः । विशेषणमपि विशेष्यीभवति विशेष्यमपि विशेषणीभवतीति काल्पनिक एवायं सम्बन्धो न वस्तुधर्मः, प्रतियोगिना सह नतरामभावस्य सम्बन्धोऽसमानकालत्वात् । यदा हि घटो न तदा तदभावः, यदा वा तदभावो न तदा घट इति । विरोधाख्यसम्बन्धो भविष्यतीति चेत्, को विरोधार्थः ? यदि हि प्रसिद्ध घटाभाव आगत्य घटं विरुन्ध्याद् भवेदपि तद्विरोधो घटमुद्गरयोरिव न त्वेवमस्ति तयोरसमानकालत्वात् । अभ्युपगमे वा घटतदभावयोरिव वध्यघातकयोः साहचर्यमनुभूयते । घटाभावः किं कुर्वन् घटं विरुन्ध्याद् ? अकिश्चित्करस्य विरोधित्वेऽतिप्रसक्तिः । अभावान्तरकरणेऽनवस्था । मुद्गरादयो घटस्य नाभाववो भवितुमर्हन्ति, भावस्य स्वत एव भङ्गुरत्वेन विनाशहेत्वनपेक्षत्वात् । भावो विनश्वरात्मासौ कृतं प्रलयहेतुभिः । अथाप्यनश्वरात्मासौकृतं प्रलयहेतुभिः ॥
तस्माद्विजातीयकपालादिसन्ततिजनन एवं मुद्गरादिकारकव्यापारः । साम ग्रन्तरानुप्रवेशे सति सन्तत्यन्तरोत्पादो, न पुनरभावस्य ततो निष्पतिः । स हि घटस्त्वन्तरं चेत् किमायातम् ? यदसौ न पूर्ववदुपलभ्यते, तद्विरोधित्वादिति चेत् प्रत्युक्तमेतत् । अनर्थान्तरत्वे तु घटस्यैव मुद्गरकार्यत्वं स्यात्
1
15
20
25
अभावान्तरकरणे त्वनवस्थेति । तदपि ह्यभावान्तरं क्रियमाणं घटविरोधित्वात् किञ्चित्करमभ्युपेतव्यम्, तच्च यद्यभावान्तरं कुर्यात् तदानवस्थेति ।
अथाप्यनश्वरात्मासौ कृतं प्रलयहेतुभिः, नित्यस्य नाशयितुमशक्यत्वात् ।